पृष्ठम्:न्यायलीलावती.djvu/६११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३४ न्यायलीलावती तत्र तु (१) श्रुतान्वयानुपपत्तेरुपलक्षणीयव्यवस्थितिरिति । यतो द्विविधं सामानाधिकरण्यम् - शाब्दमार्थञ्च | तत्राद्यस्य न कदाचि दनुपपत्तिः माता वन्ध्येति दर्शनात् । द्वितीये तु न क्रियाकारकान्व- यमात्रस्य, गंगायां घोष इत्यत्रापि सप्तमीत (२) आधाराधेयभावस्य भासमानत्वात् । वास्तवन्तु नास्त्येव । न हि गोसदृशो गवयश- ब्दवाच्य इत्युपपद्यते सादृश्यानिमित्तताया त्वयैवोक्तत्वात् । उपलक्षणीयमादाय तूपपत्तिर्गङ्गायामिति वदत्रापि तुल्येति नोपमानं मानान्तरम् - इत्याह | प्रलपितमेतद्विचारासहत्वात् । त थाहि केन गवयपदवाच्यतासामानाधिकरण्यमात्र मनुपपन्नम् | किं गोसादृश्येन, उत तदीय गवय शब्दप्रवृत्तिनिमित्ततया ? तथापि न्यायलीलावतीकण्ठाभरणम् इत्यत्रान्वयानुपपत्त्या लक्षणास्तु अत्र त्वन्वयानुपपत्तिर्नास्तीत्यर्थः । शाब्दसामानाधिकरण्यमभिन्न व्यक्तिकत्वमात्रम् | नहीति । गोसा. दृश्य विशिष्टो गवयपदवाच्य इति न वस्तुगतिरिति गौरवस्य तत्र त्वयैव दर्शितत्वादित्याह सादृश्येति । तथा च गोसाह- श्योपलक्षितं गवयत्वमादाय गवयपदवाच्यत्वप्रतीतिरिति किम् उ C न्यायलीलावतीप्रकाशः गति । लक्षणं गोसादृश्यं तस्य स्वरूपान्वयो गवयशब्दवाच्यतया सामानाधिकरण्यम्, तथा च यो गोसदृशः स गवयशब्दवाच्य इति सामानाधिकरण्यमात्रेणान्वयोपपत्तौ लक्षणाबीजं, श्रुतान्वयानुप- त्तिरिह नास्तीत्यर्थः । तत्र विति । गङ्गायां घोष इत्यादौ त्वित्यर्थः । द्वितीये विति । कदाचिदनुपपत्चिरित्यनुषज्यते । अन्वयमात्रस्येति । क्रियया कारकमन्वितं कारकेण च क्रियेत्येवं रूपस्यान्वयस्येत्यर्थः । वास्तव विति। अनया क्रियया इदं कारकं सम्बद्ध मनेन च कारकेणेयं क्रिया सम्बद्धेत्येवंरूपान्वयविशेषरूपं सामानाधिकरण्यमित्यर्थः । उपलक्षणीयमिति | लक्षणया सहशपदेनोपस्थापितं गवयत्वमित्यर्थः । ( १ ) पान्वये सामानाधिकरण्येनैव पर्यवसानम् अत्र तु इति मु० पु० पाठः । (२) सप्तमप्रिथमान्तयोगधाराधेयभावस्य प्रतिभासनात् इति मु० पु० पाठः ।