पृष्ठम्:न्यायलीलावती.djvu/६१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ५३५ किमीतदेशवाक्यव्यक्तया उत्तरकालीनविमर्शसम्भावितयावा । नाद्यः, केसरो वृक्षपदवाच्य इति वदुपपत्ते: । नेतरः, निमित्ततोप- लक्षण तौदा सीन्येपि (१) वस्तुतोऽन्यतररूपिणोऽप्यस्य शाब्दत्वात् । नान्त्यः, उदासीनस्वभावस्य शब्दावोदतत्वेन विरम्यव्यापारयो- गाव ( २ ) | तत्रापि गङ्गार्थमात्रे घोष इति पर्यवसानं स्यादिति चे- न् । तेन जलमयस्यैव गङ्गाशब्दवाच्यत्वोपलम्भात् तत्र चानु- न्यायलीलावतीकण्ठाभरणम् पमानेनेत्याह किरणावलीकार इत्यर्थः । अत्रापि यथाकथंचित् सा. मानाधिकरण्यमुपपद्यत एवेति लक्षणेत्याशयेनाह केनेति । केसर इ. ति । वृक्षपदे केसरत्वस्य प्रवृत्तिनिमित्तत्त्वेऽपि सामानाधिकरण्यस्य वास्तवस्य तत्र दर्शनादित्यर्थः । अन्यतररूपिण इति । अस्य गोसादृश्य: स्य निमित्ततोपलक्षणत्वयोर्मध्येऽन्यतररूपवत्तया शाब्दाऽनुभवविष. यकत्वेन शब्दस्य पूर्व्वमेव पर्थ्यवसानादित्यर्थः । उत्तरकालीनविमर्श संभावितयेति पक्षं दूषयति नान्त्य इति । निमित्ततोपलक्षणतोदासात् गोसादृश्य सामानाधिकरण्यबोधनात् पूर्वमेवातिदेशवाक्यस्य पर्थ्य- वसितत्वात् पुनरन्वयबोधकत्वे विरम्य व्यापारापत्तेरित्यर्थः । तत्रापीति । शक्यलक्षणसाधारणगंगापदान्वयबोधात् क्रमेण लाक्ष. णिकान्वयबोधने विरम्य व्यापारतापत्तिरित्यर्थः । तेनेति – प्रथमं श. न्यायलीलावतीप्रकाश: केसर इति। यद्यपि केसरत्वं न वृक्षशब्दप्रवृतिनिमित्तं तथापि गन्धवती पृथिवीतिवत् सामानाधिकरण्यं भासते एवेत्यर्थः । अन्यतरेति । अस्य सादृश्यस्योपलक्षणत्व प्रवृत्तिनिमित्तत्वान्यतररूपवतः शब्दान्वयबो. धविषयत्वादित्यर्थः । उदासीनेति । अतिदेशवाक्येन गवयत्वस्य प्रवृत्ति. निमित्तस्थान बगमाङ्गोसादृश्यमुपलक्षणप्रवृत्तिनिमित्तसाधारण्येन ग बयपदवाव्यत्व समानाधिकरणतया बोधितं पश्चाद् प्रवृत्तिनिमित्त. तथा बोधनीयमिति विरम्य व्यापारतापत्तिरित्यर्थः । गङ्गार्थेति । शक्यो- पलक्ष्यसाधारणगङ्गापदप्रतिपाद्यमात्र इत्यर्थः । तेनेति । प्रथमं लक्षणा- ( १ ) सीन इति मु०० पाठः । ( २ ) व्यापारापत्तेः ।