पृष्ठम्:न्यायलीलावती.djvu/६१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती पपत्तेः । अर्थान्तरशङ्कापि स्यादिति चेत् । न । एवंसति स्थिते sप्युपचारमात्रविलयात् | नम्वेवं सादृश्ये निमित्तत्वेनानुपलब्धेः कस्यचिद्भ्रान्त्यै- वमपि स्यादिति चेत् । न । तं प्रति मानव्यवहाराभावात् । न्यायलीलावतीकण्ठाभरणम् क्योपस्थितावन्वयानुपपत्तिभावस्यावश्यकत्वादित्याह, लाक्षणिका- थपस्थिति पर्थ्यन्तं वाक्यस्यापर्यवसन्नत्वात् न विरम्यव्यापारतेत्य- र्थः । अर्थान्तरेति । तथा च तमादाय वाक्यं पर्थ्यवस्येदिस्यर्थ: । स्थिते- Sपीति । व्यवस्थितेऽपि मंचाः क्रोशन्तीत्यादौ लक्षणा न स्यादित्यर्थः । नन्वेवमिति । यदि सादृश्यं प्रथमत एव निमित्तत्वेन स्फुरेत्तदा तदन्वयानुपपत्त्या लक्षणा स्यान्न त्ववमित्यर्थः । यद्यपि प्रकृते नान्वया नुषपत्तिस्तथापि तात्पर्य्यानुपपत्या लक्षणाऽस्तु व्युत्पित्सुं प्रति प्रवृ. तिनिमिततात्पर्य कमतिदेशवाक्यं निमित्तलक्षणां विना पर्य्यवसन्नमेव न स्यात् | मैवम् | यत्र न प्रवृत्तिनिमित्ततात्पर्य्यकता किन्तु स्वरूपा ख्यानमात्र तत्र लक्षणाबीजाभावादतिदेशवाक्यं श्रुतान्वयं बोधयित्वा पर्यवसन्नमथ च गवयत्वविशिष्ठोऽयं धर्मी गवयदपदवाच्य इति प्रमा तत्र भवतु नूनमुपमानादेव भवतीति तात्पय्यात् । करभानेन्दावा. क्यश्रवणानन्तरं करभं मनसा करभपदादुपेत्यानुमानस्यैवानुसरणात्, नहि तत्रापि तात्पर्य्यानुपपत्तिः तस्य निन्दामात्रतात्पर्य्यकत्वात् । ननु न्यायलीलावतीप्रकाशः या अनवगमादित्यर्थः । अर्थान्तरेति । तथा च कुतो विशेषात्तीरं लक्ष्य. त इत्यर्थः । स्थितेपीति । लोकसिद्धे मञ्चाः क्रोशन्तीत्या दावपीत्यर्थः । नम्वेवमिति | गोसादृश्यं गवयपदप्रवृत्तिनिमित्तमित्यस्य शब्देना- सुपस्थापनादित्यर्थः । ननु तथापि तात्पर्यानुपपत्त्या यष्टीः प्रवेशये- तिवल्लक्षणाऽस्तु गवयपदव्युत्पत्सु प्रति हि तद्व्युत्पत्तये वाक्यमा सेनोक्तं तच्च न प्रवृत्तिनिमित्तप्रतिपादनं विना, न च गोसादृश्यं प्रवृत्तिनिमित्तमतो गोसदृशपदेन गोसादृश्यसमानाधिकरणं गवयत्वं न्यायलीलावती प्रकाश विवृतिः तत्र सादृश्यविशिष्टप्रयोगात्स्वरूपासिद्धिशङ्का इह तु व्यक्तिषु प्रयो