पृष्ठम्:न्यायलीलावती.djvu/६१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४० न्यायलीलावती तानुपपत्ति तत्तव्यतिरेकनियमवदेवेति कचिदुपपदकं कल्पयति न वा । न चेदलिप्रसक्तिः । उपलब्धं चेत्, नियमप- न्यायलीलावतीकण्ठाभरणम् न्वरेण नियतानुपपन्नम्, तथा च यत्र बहिःसत्त्वं न तत्र गृहासत्त्व मिति व्यतिरेकव्याप्तिपर्थ्यवसझम्, नानुपपत्तिस्तथा च सा ज्ञाय. मानकरणमिति व्यतिरेकव्याप्तिज्ञानतया तन्निमित्तमनुमानमेवा- थपत्तिरित्यर्थः । तथा च देवदत्तो बहिःसन् गृहनिष्ठाभावप्रतियो गित्वात् यन्नैवं तन्नैवमिति व्यतिरेकी, यदाऽहमिह तदा नान्यत्र य- दाऽन्यत्र तदा नेहेति स्वशरीर एव व्याग्रिहात् । अर्थापत्तौ स्व. रूपसती व्याप्तिर्हेतुर्नानुमान इति चेत् । तथा सति अर्थापत्यामा- सानवकाशात् । स्मृतदेवदत्ते च मनसैव गृहनिष्ठाभावप्रतियो गित्वप्रहात् । ननु गृहासत्त्वं बहिःसत्त्वमन्तरेण विरुद्धमिति विरो न्यायलीलावतीप्रकाशः तिरेकयोव्र्व्याप्तिरिति कचित् ज्ञानवत उपपादककल्पनमतादृशस्य वेत्यर्थः । नियमेति । उपपादकाभाववत्युपपाद्याभावनियमोऽनुपपत्ति- रिति व्यतिरेकव्याप्तिमत उपपाद्याव्यतिरेक्यनुमानमुद्रयैव साध्य. सिद्धेः किमर्थापत्या | न चान्यस्य व्याप्त्यान्यस्य गमकत्वेऽतिप्रसङ्गः, साध्याभावव्यापकाभावप्रतियोगित्वस्य नियामकत्वात् । न चार्था. पत्तौ स्वरूपसती व्यतिरेकव्याप्तिर्गमिका नानुमान इति वाच्यम् । अनुपपत्तेनं विना कल्पनानुदयात्, अर्थापत्याभासानवकाशा. शेत्यर्थः । मनु व्याप्तस्य पक्षधर्म ताज्ञान मनुमाने, अत्र च व्यतिरेके व्याप्तिरन्वयस्य पक्षधर्मत्वमिति व्यातिपक्षधर्म ताज्ञानजन्यज्ञानमपि मानुमितिः । न च साध्या भावव्यापकाभावप्रतियोगितया पक्षधर्म- न्यायलीलावतीप्रकाश विवृतिः मणिकृतान प्रत्यक्षेणास्यथासिद्धिरुता । केचित्तु यावद्विशेष्यसन्निक. र्षस्थेत्यादिफक्किका यथाश्रुतैवेत्यभिप्रायेण तद्विशेष्यकलाक्षात्कारे त दिन्द्रिय सनिकर्षत्वेन हेतुतेति यावद्विशेष्यसन्निकर्ष एव हेतुरायाति, 'रजतादिभ्रमे च रजतत्वविशेषणमेवं प्रत्यभिज्ञानेऽपि तत्तेत्येक दे शिमतमतेदिव्याहुः । तदयुक्तम् | यथाश्रुतग्रन्थयोजने तदनन्तरमि- त्यादिग्रन्थानवतारात्, यथोक्तयोजने चोक्तदोषास्पर्शादिति । अत्र