पृष्ठम्:न्यायलीलावती.djvu/६१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४२ मानसच्चे विरोधोऽर्थापत्तिरस्त्विति अभावविलयापत्तेरिति । प्रसिद्धं चैतदित्यलमनेन । अर्थापत्तिभङ्गः । मचुरसाहचर्य संवेदनात् बुद्धिरवाधिता संभवः । यथा संभव- ति मेघे जलमिति । तच्चाध्यक्षवत् कचिव्यभिचारेऽपि मानान्तर न्यायलीलावती न्यायलीलावतीकण्ठाभरणम् कल्पनाऽस्तु । यद्वा शतवर्षजीवी देवदत्तो गृह एवेति व्याप्त्यवधार णात् गृहे नास्तीति तद्भावग्रहात् जीवनमरणसंशयमापाद्य बहिः सत्वकल्पनात सांशयिकानुपपत्तिरिति चेन्न । आद्ये प्रमाणयोर्विरोधा भाव एव । अन्त्ये जीवननिश्चये संशयानुपपत्तिरेवेत्यादि कथं नोक्त. मत आह - प्रसिद्धञ्चेति । - सम्भवति मेघे जलं सम्भवति खार्थी द्रोण इति प्रचुरसा. हचर्थ्यसम्वेदनाज्ञानं सम्भवाख्यं जनयतीति मतं निरस्यति प्रचुरेति । ननु सम्भवो न मानं व्यभिचारिबुद्धिजनकत्वादित्यत आह - तच्चेति । एवं सति इन्द्रियमपि व्यभिचारिशानजनकत्वान्न न्यायलीलावतीप्रकाशः . लभ्यमानसत्त्वे योग्यानुपलब्धिर्विरोधिरूपार्थापत्तिरेव करणं या दिति सापि मानान्तरं न स्यादित्यर्थः । ननु तथापि कथं विरोध• स्यानुमानेऽन्तर्भाव इत्यत आह प्रसिद्धं चेति । एतदर्थापत्तिरनुमानमे वंरूपमित्यर्थः । विरोधोपि न तावद्गृह्यते यावदभावयोर्व्याप्तिर्न गृ ह्यते सहानवस्थाननियमस्य विरोधत्वादिति भावः । तच्चेति । यथेन्द्रियं दोषसाहित्यात् कचिदप्रमाकरणत्वेऽपि प्र न्यायलीलावती प्रकाशविवृतिः माने च न विरोधज्ञानं करणमिति भावः । सापीति । तवेति शेषः । य द्यपि न गृहे देवदत्त इति ज्ञानानन्तरं देवदत्तो बहिरस्तीति ज्ञानं गृह निष्ठाभावप्रतियोगित्वलिंगकानुमितिरूपं वाच्यम् तच्चाशक्यं प्रतियो गित्वस्य संसर्गमर्यादया भानेन लिंगतावच्छेदकप्रकारकशानाभा- वात् । तथाप्यनुपपत्तिरपि प्रतियोगित्वस्यैवेत्युपपाद्यतावच्छेदकप्र- कारकशानाभावेन ताहारी ज्ञाने ताहराफलासिद्धेरु मयत्वमेव | नचाव. श्यंभावज्ञानमेव गमकम् । एवमनुमानेऽपि तस्यैव गमकत्वेन द्विल- क्षणसामग्यमावेन भेदाभावादिति भावः । J