पृष्ठम्:न्यायलीलावती.djvu/६२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती प्रमाण (१) मिति चेत् । न । तत्मवादपारम्पर्यस्यादरपरिग्रहादेवा- सोक्तत्वानुमानात् । ऐतिह्यभङ्गः ॥ अभावो मानान्तरम् । न ह्यनुपलम्भानपेक्षं नयनमभावग्रा- न्यायलीलावतीकण्ठाभरणम् त्वाभावादित्याह प्रवादेति । प्रवादमात्रं च न मानमिति भावः । अभावो मानान्तरमिति भट्टमतमुपन्यस्यति अभाव इति । अन्वय- व्यतिरेको दर्शयति न हीति | यन्मते नयनमभावग्राहि तन्मतेऽप्यनुप लम्भसापेक्षमेव, तथाच नयनमाश्रयग्रह एव उपक्षीणमवश्यापेक्षणी. योऽनुपलम्भस्तस्यैव मानत्वादिति भावः । ननु करणत्वे सति प्रमा- न्यायलीलावतीप्रकाशः १ न्तर्भाव इत्याह प्रवादेति । प्रवादमात्रं च प्रमाणमेव न भवतीति भावः । ननु योग्यानुपलबधर्मानान्तरम् अभावग्राहकतदुपलंभे च त दभावाग्रहादित्यत आह अभाव इति । नन्वनुपलब्धिर्नाभावग्राहिका किञ्चिदिन्द्रियं स्वरूपसन्नभावश्चेति द्वयमेव तद्ब्राहकमित्यत आह नहीति । तथासति शुक्तौ रजतत्वाभावः सनिकृष्टं चक्षुश्चेति अभाव- प्रहापत्तौ तद्भ्रमो न स्यादित्यत आह इदमिति । तथा चावश्यकत्वा तत्र योग्यानुपलब्धिर्मानमित्यर्थः । न च तत्र दोष एवाभावग्रहप्रति • बन्धकः, अभावभ्रमानुत्पत्त्यापत्तेः । न च दोषादेव तदुत्पत्तिः, दोष: न्यायलीलावतीप्रकाशविवृतिः

आवश्यकत्वादिति । कारणताया इति शेषः । यदि दोषमात्रमभावग्रह-

प्रतिबन्धकं तदा दोषसत्वे तत एव तदसखे भ्रमसामग्रीभूतदोषादे वाभावभ्रमः क्वापि न स्यादित्याह अभावभ्रमेति । ननु कश्चन दोषो Sभावप्रमाप्रतिबन्धकः कश्चनाभावभ्रमजनक इति नोकदोष इत्याश येनाह न च दोषादेवेति । दोषस्यापीति । तादृशी च सामन्यनुपलब्धिरेवा. न्वयव्यतिरेकात्, चक्षुरादेधाधिकरणग्रह एवोपक्षयः प्राप्त्यंभा बेनाभावप्रत्यक्षहेतुत्वात् विशेषणतायाश्च प्रत्यासत्तित्वानभ्युपग मादिति भावः । नन्वनुपलब्धिर्न तथा किन्तु विषयीभूतोऽभाव एव > ( १ ) वेदस्य प्रामाण्यमि० ।