पृष्ठम्:न्यायलीलावती.djvu/६२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती च नयनमपि करणम्, एकत्रोभयनिषेधादिति । नयनं भूतल एवा → न्यायलीलावतीकण्ठाभरणम् कसत्वान्नयनमपि करणं नयनमेव कारणं तत्र स्यादित्यत आह न चेति । शुक्तौ रजतत्वोपलब्धेस्तदभावानुपलम्भ इति भ्रमानुरोधाद- नुपलम्भस्य कारणत्वं वाच्यम्, रजतत्वाभावानुपलम्भश्च शुक्तित्वा न्यायलीलावतीप्रकाशः व्यापारस्य तृतीयलिङ्गपरामर्षादेः कारकान्तरचरमभावित्वेन कारण- त्वं तथैतस्यापि स्यात् । कारकान्तरचरमभावित्वं च नोत्पद्यमानत्वं किन्तु विद्यमानत्वमात्रम्, तच्चानुपलम्भेऽपि विद्यत एव । न चैवं सर्वेषां करणत्वप्रसङ्गः, निमित्तसमावेशेन संज्ञासमावेशस्येष्टत्वात् । यत्तु व्यापारवदिति कारकस्यैव विशेषणम् | तन्न । व्यापारविशि टस्यैव कारकतया वैयर्थ्यापत्तेः । न च व्यापाराभावाचानुपलब्धिः करणम्, उक्तमात्रस्यैव करणतानियामकत्वे व्यापारवत्वस्य विशेष. णत्वे गौरवात् । ननु चाभावप्रमायामिन्द्रियमपि करणं तदन्वयाद्य- नुविधानादित्यत आह - न चेति । अभावप्रमाया इन्द्रियजन्यत्वेन न्यायलीलावतीप्रकाश विवृतिः ङ्गपरामर्षपरं दृष्टान्तलाभायोपात्तमिति भावः । व्यापारद्वारा कारका न्तरचरमभावित्वं कर्मादेरपीत्यतिव्याप्तिरित्याशंक्य निराकरो. ति नचैवमिति । विशेषणमिति । यथाश्रुत्तमेवेति भावः । अन्यथा प्रथमप क्षभेदानुपपत्तेः । व्यापार विशिष्टस्येति । यद्यपि निर्व्यापारानुपलब्धेरपि कारकत्वाभ्युपगमात्तद्विशेषणं व्यावर्त्तकं भवत्येव, तथापि तथात्वे. ऽपि वैयर्थ्यमेव, व्यावर्तनीयकारकान्तराव्यावर्तकत्वात् । यथोक्तवि वक्षया तु सिद्धनः समोहितमिति भावः । उक्तमात्रस्यैवेति । यावत्कार. कान्तरव्यापारचरमभावित्वस्यैवेत्यर्थः । न च पूर्व व्यापारविशिष्टस्यै. व कारकत्वमुक्तमिदानीं तु निर्व्यापारस्यापि कारकत्वविशेषकरण- त्वस्वीकारे विरोधः । पारिभाषिककरणत्वस्य कारकत्वाव्याप्य त्वात् । सामान्यविशेषभावस्वीकारस्तु कारकत्वकरणत्वयोर्व्यापा रविशेषवत्कारणं करणमिति लक्षणाभिप्रायेणेति भावः । अभावप्रमाया इति । यद्यप्यनुपलब्धेन्द्रिय सहकारितया न परोक्षज्ञान प्रयोजकत्वं क्का- पि रष्टं तथा प्राङ्नास्तितास्थले तदपि दृष्टमेवेत्युभयप्रयोज्यत्वे प्रत्य. तु .