पृष्ठम्:न्यायलीलावती.djvu/६२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती न्यायलीलावतीप्रकाशः नुपलम्भाहोषाधीनादिदं रजतमित्यत्र नाभावग्रह इति शुतौ रजत- भ्रमोत्पत्तिरिति भावः । नन्वत्रोक्तमभावभ्रमो न स्यात् । अत्र वदन्ति । न प्रतियोगिनोऽनुपलब्धिरभावप्रमाकरणं तज्ज्ञानस्य तत्र हेतुत्वात् । नापि प्रतियोगिमदधिकरणशानाभावः, आरोग्य निषेध्यत इत्यभ्यु. पगमात् । नापि प्रतियोगिमदधिकरणप्रमाया अभावः, अत्यन्ता- भावग्रहे तादृशप्रमाया अप्रसिद्धेः । नाप्यधिकरणप्रमायां प्रतियोगि मत्त्वप्रकारकत्वाभावः, विनश्यवस्थघटवत्कपालप्रमानन्तरं ध्वं. सप्रतीतेः, आरोपस्याहेतुत्वेपि तत्रामात्रधर्न स्यात् । न चानुपलब्धे. रंभावग्रहाहेतुखे घटवत्यपि तदभावग्रहापत्तिः, तत्र घटाभावाभावा. देव तद्नुपपत्तिः । न चेन्द्रियस्याधिकरणग्रह एवोपक्षयः, अन्धस्य त्व गिन्द्रियोपनीते नीले स्मृतपतित्वस्यानुपलब्धेरमावधीप्रसङ्गात् । प्रति. योगिग्राहकेन्द्रियग्राह्यत्वे त्वभावधी: प्रत्यक्षा न त्वनुपलब्धिलिङ्गजन्या, अनुपलब्धेरशानाव, आप्तवाक्यस्येव तज्ज्ञापकस्याभावात् । न चाज्ञा. तैष रूपाद्युपलम्भस्यानुपलब्धी रूपाद्यनुपलब्धिं गृह्णाति भूतले घटा भावमिवेति वाच्यम् | उपलम्भस्य त्वन्नयेतीन्द्रियता योग्यानु. पलब्ध्योपलम्माभावस्य ग्रहीतुमशक्यत्वात्, अनुपलब्धिमात्रस्याभां- न्यायलीलावतीप्रकाशविवृतिः ५४८ ● स्वमतेनोक्तं वैशेषिकनये शाब्दानुमित्योरभावादिति । दोषाधीना• दिति । यद्यपि दोष एव रजतत्वाभावप्रतिबन्धको न तु शुक्तित्वा- नुपलम्भः, अन्यथा वैपरीत्यापत्तेः, अत एव मूले तथैवोक्तम्, तथापि दृष्टान्तत्वेनैव हेतुत्वं बोध्यम् । यद्यपि दोषवैचित्र्यात् क श्चन दोषोऽभावग्रहप्रतिबन्धको नाभावभ्रमकारणमित्यनुपलब्धे. रकारणत्वेष्यभावभ्रम उपपद्यते एव, तथापि वक्ष्यमाणप्रकारे- णाप्यनुपलब्धिहेतुत्वनिराकरणं शक्यत एवेति हृदि निघाय प्र. 'कारान्तरमाह - अत्र वदन्तीति । तथा चानुपलब्धेर्भिर्व ऋतुम शक्यत्वात् शक्यत्वे वा कारणत्व एव मानाभावात्कुतः करणत्वमिति भावः । न चारोपो न हेतुरिति प्रतियोगिमदधिकरणज्ञानामावानुपलब्धिरि- त्या आरोपस्याहेतुत्वेपीति । एवमप्युक्त प्रतीतिस्थले ध्वंसप्रतीत्यनुप पत्तिरिति भावः । आप्तवाक्यस्येति । मन्दिरोदरे चैत्रो निपुणतरमनुसृतो न चोपलब्ध इत्यादेरिति शेषः । वस्तुतो योग्यानुपलब्धिः कारणं भ.