पृष्ठम्:न्यायलीलावती.djvu/६२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ५४९ चेत् । न । भावभेद एव (१) सावकाशत्वात् । तुल्यन्यायेनैव वि वेको न शक्यत इति चेत् । न । अस्याभावेऽपि तुल्यत्वात् । न्यायलीलावती कण्ठाभरणम् अभावानुपलम्भस्यैव तत्र करणत्व सम्भवादित्याह अभावेति । भावभेद इ- ति । किञ्चिद्भावं गृह्णदेवेन्द्रियं न निरवकाशमित्यर्थः । विनिगमनाभावा. तू योग्यं सर्वमेव भाव ग्रहिष्यतीन्द्रियमित्याह तुल्येति । तर्हि भाव.. मेव गृह्णाति न त्वभावमपीत्यत्रापि विनिगमनाभाव एवेत्याह अस्येति । न्यायलीलावतीप्रकाशः ग्राहकत्वात् । नचेन्द्रियेणाभावस्य प्रत्यासत्यभावः, इन्द्रियातुवि धानेन तज्जनकत्वसिद्धाविन्द्रिय सम्बद्धविशेषणतायाः प्रत्यासति त्वकल्पनादिति संक्षेपः । किञ्चैवं भावबुद्धिरव्यभावानुपलब्ध्यैव क्यान त्विन्द्रियादित्याह अभावानुपलम्भेनैवेति । तथासतीति । भावाभा वयोरग्रहादित्यर्थः । भावभेद इति । कश्चिद्भाव इन्द्रियेण ग्रहिष्यत इ. त्यर्थः । तुल्येति । भावत्वाऽविशेषेपि कश्चिद्भावोऽनुपलब्ध्या ग्राह्यः, कश्चिदिन्द्रियेणेति विवेको न शक्यग्रह इत्यर्थः । अस्याभावेपीति । यथा न्यायलीलावतीप्रकाशविवृतिः बत्येव नतु करणं कल्पनीय प्रमाणभावत्वात् । न च भावग्रहेऽप्यभा वानुपलब्धिरेव करणमिति बैपरीत्यमेवास्त्विति वाच्यम् । अन्यप्र कारकान्याधिकरणकविरोध्युपलम्भस्यापि विरोधितया तत्प्रकारकत- दधिकरणकविरोध्युपलम्मस्य प्रतिबन्धकत्वं वाच्यमिति निर्विकल्पक निराकरणकभावग्रहयोस्तदसम्भवेनावश्यामन्द्रियस्य करणत्वात् । न् ब कारणत्व एव मानाभावः, जलपरमाणौ पृथिवीत्वाभावग्रहप्रसंगेन योग्यानुपलब्धेः कारणत्वात् । न च योग्यव्यक्ति घटितविशेषणताया एव ग्राहकत्वम्, वायौ चक्षुषा रूपाभावप्रतीत्यनुपपत्तेः । न चैवमभाषा: नुपलब्धिरपि भावग्रहे कारणम् साधिकरणकप्रकारकबुद्धेरिष्ठ पत्तेरि• त्यामप्रेत्याह संक्षेप इति । केचित्तु अभावस्य योग्यानुपलब्धिर्ना भावप्रहे कारणम् अभावग्राहकसामन्यां प्रतियोग्यारोपोऽपि प्रविष्ट इति त ज्ज्ञानस्यैव तज्ज्ञानकारणतापतेरात्माश्रयादित्याहुः । तद्युतम् ! तयाप्यपदस्यासाधारणोपलम्मकपरतया तत्पदेनैव प्रतियोः ( १ ) भेदमादायैव इति पाठान्तरम् ।