पृष्ठम्:न्यायलीलावती.djvu/६२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९ विस्तृतं चैवं शास्त्र एवेत्यलमनेन । अभाव एव मूलभूतोऽसम्भवी कुतो मानभेदचिन्ता | ना. न्यायलीलावती न्यायलीलावतीकण्ठाभरणम् नम्विन्द्रियस्य भावेन सह संयोगादिः सन्निकर्षोऽस्ति न त्वभावेनापि, न चासंनिकृष्टमिन्द्रियं ग्राहकमित्येव नियामकमिति चेत् । न विशे षणताया प्रत्यासत्तेरिहापि सत्त्वात् । अभावे गृहीते विशेषणता तथा च ग्रह इत्यन्योन्याश्रय इति चेत् । न । तदुपलब्धेस्तु प्रत्ययजननस्वा. भाव्यलक्षणाया विशेषणतायाः पूर्वमपि सत्त्वात् । किञ्चेन्द्रियस्या- न्वयव्यतिरेकसत्वात्तदेव तत्र करणं, न त्वधिकरणग्रहोपक्षीणं तत्, स्वगिन्द्रियोपनीते पीतेऽन्धस्यापि नीलिमव्यतिरेकग्रहापत्तेः । प्रति- योगिग्राहकेणाधिकरणग्रहणं तन्त्रमिति चेन्न । वायौ चक्षुषा रूपामा- वानुपलम्भप्रसङ्गात् । तत्र रूपाभावोऽनुमीयते इति चेन्न । लिङ्गाभावात् । अनुपलभ्यमानत्वमेव लिङ्गमिति चेन्न | तस्याप्यतु. पलम्भात् । न ह्यनुपलब्धिरपि योग्यानुपलब्ध्या गृह्यते । उपलब्धे- रयोग्यतया तत्र योग्यानुपलम्भासम्भवात् । प्रतियोगिग्रहे च इ. न्द्रियस्य सामर्थ्यादभावग्रहेपि सामर्थ्य कल्पनादित्यभिप्रेत्याह बिस्तृतमिति । प्राभाकरं मतमुत्थाप्य निराकरोति अभाव एवेति । मूलतः-तत्वतः, न्यायलीलावतीप्रकाशः कश्चिद्भावो ग्राह्यः कश्चिनेति विनिगन्तुं न शक्यते तथाऽभावो ग्राह्योन भाव इत्यपि तथेत्यर्थः । किञ्चाभावग्रह इन्द्रियानुविधाना• दिन्द्रियं तत्र हेतुरन्यथा निमिलिताक्षस्यापि घटानुपलब्ध्या घटाभाव- धीप्रसङ्गः, नापीन्द्रियार्थसन्निकर्षे सत्यनुपलब्धिं विनाऽभावधीवि. लम्ब इत्यभिसन्धायाह विस्तृतं चेति । अभाव एवेति । प्रमेयत्वं भावत्वव्याव्यमित्यर्थः । अतो न सिञ्चलि. न्यायलीलावती प्रकाशविवृतिः भ्यारोपवारणादिति दिक् । अन्यथा निमीलिताक्षस्यापीति । न च चक्षु- रुन्मीलनादिसहकारिविरहान तत्र योग्यानुपलब्धिरिति वाच्यम् | चक्षुरुम्मलिनादेः संनिकर्षो पक्षीणत्वेन तदपेक्षायामिन्द्रियस्याण्यपेक्ष- शेन तस्यैव कारणत्वौचित्यादिति भावः |