पृष्ठम्:न्यायलीलावती.djvu/६२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भालिता ५५१ -- स्तीति धौरिति (१) चेत् । न अस्या आश्रयस्वरूप भेद | लम्बन. त्वात् । तथाहि — अस्ति तावद्भावाभावादासीनमाश्रयस्व रूपम् । कीदृश्यन्यथाभावः समवेति ( २ ) ? न तावत्चद्वति (३), आत्माश्रयत्वात् । नापि तज्जातीयवति, अनवस्थितः । नापि तद्धीने (४), भावाभावयोरविरोधापत्तेः | भावाभावयोश्च ना न्यायलीलावतीकण्ठाभरणम् असम्भवी-अधिकरणभिन्नत्वेन प्रमाणागोचरः । अत्र प्रमेयत्वं भाव- त्वव्याध्यमित्यर्थः । तथाच न सिध्यसिद्धिव्याघात इत्यर्थः । नास्तीति । मानमित्यध्याहियते समावसन्त्रमनुषज्यते वा । इह भूतले घटो नास्तीति प्रतीतिरेवाभावे मानम्, अस्या भूतलमात्रालम्बनत्वे घटवत्यपि प्रसङ्गा दिति भावः । अत्रान्यथासिद्धिमाह अस्या इति । यादृशे भूतलेऽभावः प्रयु ज्यते तदेवाभावधीहेतुरित्यर्थः । आत्माश्रयेति । स्वस्मिन् स्वावृत्तिवत् स्वविशिष्टेपि स्ववृत्तेरनुपपत्तेरित्यर्थः । न्तरं प्रयुज्यतामित्याशंक्यानवस्थया दूषयति नापीति । तद्धीन इति । अभावान्तरवत्यभावा. न्यायलीलावतीप्रकाश: द्विव्याघातः । नास्तीति धरिति । अस्ति तावदिह भूतले घटो नास्ती. ति धीः, न च भूतलमात्रं तदालम्बनं घटवत्यपि प्रसङ्गात्, नापि केवलं भूतलं अतिरिक्त कैवल्यानङ्गीकारात् । न च भूतलमेव कैवल्यं पौनरुक्त्यापत्तेरित्यभावसिद्धिरित्यर्थः । आश्रयस्वरूपभेदमाह -तथा- हीति । अस्ति भूतलविशेषो यत्राभावः सम्बद्ध्यते, अन्यथा देशादि- नियमेन तद्यवहारो न स्यात्, तथाच स एवाभाव इत्यर्थः । आत्मा. श्रयादिति । स्वविशिष्टे स्वावृत्तेरित्यर्थः । अनवस्थितरिति । अभावान्तरव त्यभाववृत्तेरेव तस्याभावान्तरवति वृत्तेरपर्यवसानादित्यर्थः । तद्धीन इति । घटवतीत्यर्थः । अविरोघेति | सहावस्थानादित्यर्थः । भावाभावयोश्चेति । न्यायलीलावतीप्रकाशविवृतिः 1 अतिरिक्तेति । त्वयेति शेषः । अङ्गीकारे च पर्यवसितं विवादेनेति मागः । ननु घटभावादिपदस्यात्यन्ताभावपरत्वेऽन्योन्य संसर्गिता चेत्यनेन ( १ ) वीरस्तीति० । ( ३ ) तावद्वति - ता० पु० । ( २ ) सम्वध्यते । ता० पु । ( ४ ) त ।