पृष्ठम्:न्यायलीलावती.djvu/६२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावती स्तीति व्यवहारदर्शनात | घटाभावेऽपि यदि घटोऽस्ति उपल- भ्येत । नास्ति चेदभावान्तरम् | न चेत्सिद्धमीहितम् । घटे च घट (१) तादात्म्याभावो नास्तीति यदि घटविधिः तदानवस्था | अथाश्रयस्वरूपम् | उक्तमुत्तरम् । एवं घटाभावपटाभावयोः प्रा. गभावध्वंसयोनैक्यं नान्योन्य संसर्गिता वेति विकल्प्य दूषणमभि- घानीयमिति चेत् | मैवम् | विचारासहत्वात् । किमिदं परिप- .न्थितर्कमात्रम् ? यदि भूतलौदासीन्यं न स्यात् तदा अभावो न • सम्वन्ध्येतेति, विपर्ययपर्यवसानादाश्रयभेदसाधनं वा । नायः । १ न्यायलीलावतीकण्ठाभरणम् भाववतीत्यर्थः । अधिकरणस्वरूपमेवाभावव्यवहारहेतुरिति प्रकारा. न्तरेण व्यवस्थापयन्नाह भावाभावयश्चिति । समीहितमिति ( २ ) । तत्राधिकर णस्वरूपेणैवाभावव्यवहार इत्यर्थः । घटे चेति । अन्योन्याभावाभावस्य घटरूपतया घटे घटान्तरं तत्रापि घटान्तरमित्यनवस्थेत्यर्थः । अथे ति | घटाभावाभावव्यवहारस्य घटरूपाश्रयमात्रसाध्यत्वे भूतलेऽपि घटाभावव्यवहारोऽधिकरणस्वरूपेणैव कार्य इत्यर्थः । एवमिति | घटाभा- वें पढ़ो नास्तीति व्यवहारः प्रागभावे प्रध्वंसान्योन्याभावव्यवहारश्चा. न्यायलीलावतप्रिकाशः यथा भूतले घटो नास्तीति व्यवहारः तथा घटाभावे घटो नास्तीति व्यवहारोऽस्तीति तत्राप्यभावान्तरं स्यादित्यर्थः । एतदेव स्फुटयति घंटाभाव इति । सिद्धमिति | स्वरूपालम्बनेनैव नास्तीति धीरित्येवंरूप मित्यर्थः । घटविधिरिति । अभावाभावस्य भावात्मकत्वादित्यर्थः । एवमिति | घटाभावपटाभावयोः प्रागभावध्वंसयोरिति यथासंख्य. न्यायलीलावती प्रकाश विश्वतिः विरोधः, घटाभावाभावे पटाभावसंसर्गादित्यत आह घटाभावपटाभावयो. 'रिति । तथाच घटाभावपटाभावभावयोनैक्यं प्रागभावप्रध्वंसयोर्नान्यो- भ्यसंसर्गितेत्यनुषजत इत्यर्थः । यद्धा घटाभांवयोरित्यत्रैव ग्रंथासं. वयं प्रागभावप्रध्वंसयोरित्यस्याभेदेनान्वय इत्यर्थः । तथाच घ. (१) ०च तदूघट० | ( २ ) शङ्करमतेत्र मूले-सिद्ध समीहितम् इति पाठो बोध्यः |