पृष्ठम्:न्यायलीलावती.djvu/६३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती व्यम् । घटाभावे पटो नास्तीत्यत्र का वार्ता | प्रकृतैव । तर्हि सापि पटनास्तितेति सर्वप्रतिपक्षविरहे जगच्छ्रन्थं स्यादित्यस्मत्पस्थान- मनुसरेति चेत् | मैवम् | स्वरूपेण तनिषेधव्यवहारविषयत्वेऽपि कश्चित्तद्विरोधिस्वभावो मध्यस्थवेति सम्भवात् । वस्तुवैचित्र्य- स्यापर्यनुयोज्यत्वात् इति । सघटजातीय भूतलात्पृथग्भूतलमिति चेत् । न | भूतळ त्वेन पृथग्क्त्वस्यानुपपत्तेः । साधारणधर्मस्या- न्यायलीलावतीकण्ठाभरणम् प्रकृतैवेति । तत्राप्यनतिप्रसक्ताधिकरणस्वरूपेणैवाभावव्यवहार इत्यर्थः यद्यपि अभावेण्यभावान्तराङ्गीकारे नानवस्था, किञ्च प्रतीतेस्तौल्येन न्यायलीलावतीप्रकाशः यद्वा प्रतीतेस्तौल्येन घटाभावेण्यभावान्तरं वर्त्तत एव, अन्यथा व्य वहारस्य तुल्यत्वादेकत्र यदि स्वरूपेणाभावव्यवहारः स्यात् नन भ्रमः स्यात् । किञ्चाभावो यदि घटं प्रति (?) (१) उत्तरं प्रकृतैवेति । अति प्रवक्ताधिकरणस्वरूपमेवाभावव्यवहारहेतुरित्यर्थः । प्रष्टाऽभि सन्धिमुद्घाटयति तहीति । एकध्वंसेनान्यध्वंसव्यवहारे घटध्वंस सकलध्वसरूप इति घटध्वंसे सकलध्वंसो जायते इत्येकध्वसे स- त्येव जगच्छ्रन्यमापद्येतेति माध्यमिकमतप्रवेश इत्यर्थः । स्वरूपेणेति । घटध्वंसो घटविरोधी न पढादिविरोधीत्यर्थः । सघटेति । अभावव्य- वहारकारणमिति शेषः । एकस्मात् संघटभूतलात् सघटमपि भूत: न्यायलीलावतीप्रकाशविवृतिः " भावसिद्धावुत्तरकालमवतीर्णो ऽपि प्रतिबन्दिरभाव न बाधते उपजी व्यविरोधादिति रहस्यम् । नन्वेकस्यापि ज्ञानादे: सम्बन्धद्वयेन वि शिष्टां प्रतीतिः प्रमा भवत्येवेत्यरुचेराह किञ्चति । नचेति । तर्कमूलभू- तव्याप्तौ नायमुपाधिरापादकव्यापकत्वादित्यर्थः । अत्र विपर्ययसा- ध्यविशिष्टत्वमनवस्था चेत्यरुचिबीजं नवनिबन्धोपन्यासेन सुचि तम् । एकध्वंसेनान्यस्यापीति । घटध्वंसे पटो नास्तीति प्रतीत्या घटध्वं सस्यैव पटादिनास्तितास्वरूपत्वादित्यर्थः । घटेच घटतादात्म्या भावो नास्तीति यदि घटविधिरित्यत्र समाधिमाह मूले घंटे व घटा ( १ ) अत्रापि पाठो भ्रष्ट इति विवृतिदर्शनात्स्फुटं ज्ञायते । 3