पृष्ठम्:न्यायलीलावती.djvu/६३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५८ न्यायलीलावती व्यवहारस्य सघटभूतलबुद्धावपि सन्चात् । असति सघटभूतळ बुद्धिवे स्वरूपभेदव्यवहार इति चेत् । न । अभावस्वीकारात् । असति व्यावर्तकधर्मे व्यावृत्ति ( १ ) व्यवहारानुपपत्तिः । सर्वत्र व्यावृत्तव्यवहारस्य तत्प्रतिबन्धोपलब्धेः । अत इयं कि भूतल- बुद्धित्वेन व्यावर्तते, अथ घटाविषयत्वेन | नाद्यः | तस्यामपि भुतळबुद्धित्वाबाधात् । न द्वितीयः | अभावस्वीकारात् । सघ टभूतलबुद्धिमात्रापेक्षया रूपभेद इति चेत् । न साधारणधर्मा- बभासे तन्मात्रापेक्षया स्वरूपभेदव्यवहार स्यैवाभावात् ( २ ) । न हि गौगोस्वरूपा (३) ट्र्यावर्तते गोत्वेन । ततो भवन्नयं वि मिन्नव्यवहारोऽसाधारण घटा (४)न्य विषयत्वप्रतीतिनिबन्धनः । न्यायलीलावतीकण्ठाभरणम् असतीति । यत्र बुद्धौ सघटभूतलबुद्धित्वं नास्ति साsभावव्यवहारं करो. तीत्यर्थः । अभावेति । नास्तीति कण्ठत एव वाऽभावाभ्युपगमादित्यर्थः । स्वरूपभेदोपि व्यावर्तकधर्माधीनः स चाभाव एवेत्याह असतीति । इय- मिति । अभावव्यवहारहेतुभूता बुद्धिरित्यर्थः । अभावेति । घटाभावविषय. स्वमत्र नअर्थस्याभावादित्यर्थः । असाधारणेति । असाधारणं यदूद्ध. टादिविषयत्वं धर्मो बुद्धौ तन्निबन्धन इत्यर्थः । विलक्षणव्यवहारस्य वैलक्षण्याधीनत्वादवश्यं घटवत्घटाभावव्यवहारयोर्वेलक्षण्यमभ्यु. . न्यायलीलावतीप्रकाशः ताडशी भूतलबुद्धि रभावव्यवहारहेतुरित्याह असतीति । व्यावृत्त बुद्धेव्यवर्तकधर्माधीनत्वं प्रसाध्य व्यावृत्तव्यवहारस्य तत्साधयति असति व्यावर्तक इति । अभावे व्यावृत्तव्यवहारः स्वरूपनिबन्धन एव, अ न्यथाऽनवस्थापत्तेः, अत्र तु बाघकाभावात्सोऽसाधारणधर्मजन्यः, स चासाधारणधर्मोऽभाव इत्यर्थः । अत इति । अतः सघटभूतल. बुद्धेरियं निर्धटभूतलबुद्धिरित्यर्थः । तस्यामपीति । सघटबुद्धावपीत्य ( १ ) ०व्यावृत्तव्य० । ( ३ ) ० स्वरूप मात्रादूग्या० । ( २ ) ० स्यैवापारातू, ( ४ ) ०घटायवि० |