ऽवसरे एव वक्ष्यामः
परस्पराभावरूपतापत्तिस्त्वविरोधिस्व-
न्यायलीलावतीकण्ठाभरणम्
व्यवहारं करोति तथा प्रकृतेपीत्यर्थः । नैक्यं नान्योन्य संसर्गिता वेति विकल्पय दूषणमुक्तं तदग्रे निरसनीयमित्याह नैक्यमिति । परस्परेति । घटाभांवे घटो नास्ति पटाभावे च पटो नास्तीत्युभयोः स्वरूपेण चेदन्योन्यनास्तिता व्यवहारेऽपि पटाभावदशायां घटसत्त्वेऽपि तद्-
न्यायलीलावतीप्रकाश:
यथा स्वरूपमेव सम्बन्धस्तथात्रापीत्यर्थः । ननु यथा घटाभावे पटो नास्तीत्यत्र घटाभावस्वरूपमेव घटनास्तिता, तथा घटाभावे घटो नास्तीत्यत्रापि घटाभावस्वरूपमेव पटनास्तिता, एवं च घटाभावे विद्यमाने यथा घटनास्तिताव्यवहारो घंटे विद्यमाने घटाभावनास्तिताव्यवहारः तथा घटाभावे विद्यमाने पटनास्तिता घटे च विद्यमाने घटाभावनास्तितापत्तिरित्यत आह - परस्परेति । ननु घटवद्भूतलभिन्नं भूतलमभावः यत्र परेषामभावः घटवभूतलभिन्नभूतलबुद्धिर्वा भेदः स्वरूपमेव तादात्म्येनाप्रतीतौ प्रतीतिरिति तवापि त्वरूपभेदलक्षणं इदानीमिदं भूतलं घटवद्भूतलं नेति प्रतीतेः । एतावांस्तुविशेषो-यत्र च समानाधिकरणनिषेधधीरन्योन्याभावं भेदमालम्बते मम तु स्वरूपभेदम् । नचैवं प्रतियोगिज्ञानापेक्षानुपपत्तिस्तयोर्निः प्रतियोगिकत्वादिति वाच्यम् । अभावस्य निःप्रतियोगिकतया स्वज्ञाने तंदनपेक्षत्वात् स्वव्यवहारमात्रे तदपेक्षणात् । न चातिरिक्ताभावपक्षेऽन्योन्याभावे अत्यन्ताभावे च नित्ये मानमस्ति प्रतियोगिनि बुद्धिस्थेऽधिकरणस्वरूपस्यैवानतिप्रसञ्जकत्वात्, न हि तत्राऽधिकरणस्य प्रतियोगितादात्म्यं प्रतियोगिमत्त्वं वा भवति, अत एंवाभावे नामावान्तरं स्वीक्रियते । न च भूतलज्ञानस्वरूपाणामननुगमादनुगतव्यवहारानुपपत्तिः, अतिरिक्ताभावपक्षेऽप्यनुगतस्याभा
न्यायलीलावती प्रकाशविवृतिः
निराकर्ते पुनराशंकते ननु घटवदिति । तवापीति । तत्रैवेत्यर्थः । मम तु शुक्तित्वेनाप्रतीतिदशायां शुकेः शुक्तिभेदापत्तिरीश्वरानंगीकारादिति भाषः । ननु घटवत्वप्रकारकज्ञानभिन्न भूतलशानस्याभावत्वे घटवति घटवत्त्वाशानदशायामभावव्यवहारापत्तिः, घटवतो भू-