पृष्ठम्:न्यायलीलावती.djvu/६३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
५६१
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


भावत्वेन व्युदस्तेति सिद्धस्तावद्भावः ॥

 किं पुनर्नञोऽभिषेयमिति विचार्यते । न तावत्सामान्य-


न्यायलीलावतीकण्ठाभरणम्

धीनस्त नास्तिताव्यवहारो नापद्येत अविरोधिस्वभावत्वात् घटपट. नास्तितयोरित्यर्थः

 किं पुनरिति । नञ्शब्दे किं प्रवृत्तिनिमित्तमित्यर्थः । परसामान्यं

न्यायलीलावतीप्रकाशः

वत्वस्य दुर्वचत्वात् । मैवम् । सप्रतियोगिको ह्यभावोऽनुभूयते घटो नेत्यनुभवात् न तु नञ्मात्रमतोऽसाबवित्तिवेद्यत्वं प्रतियोगिनः। प्रतियोगिज्ञानाधीनज्ञानत्वं चाभावस्य प्रतियोगिसाक्षिकं गोसादृश्यवत् केवलमधिकरणं तज्ज्ञानं च नाभावः प्रतियोगिज्ञानं विनापि सम्झानात्। न चाभावव्यवहारे सप्रतियोगिकत्वम्, नञर्थस्य सप्रतियोगिकत याऽनुभवात, नाभावव्यवहारस्य तस्याभावज्ञानजन्यत्वात्, व्यवहारस्य च व्यवहर्त्तव्योपलम्भमात्रनिबन्धनत्वात् । नच हस्त्यवितस्त्यादेदर्दीर्घस्य द्रव्यसमकालमनुभूतावपि व्यवहारेऽवधिज्ञानापेक्षत्वायभिचारः, तस्य परिमाणान्तरत्वात् । अपि च न केवलं भूतलमभावः, आधाराधेयानुभवात् अभेदे च तदनुपपत्तेः । अथ यस्मिन्समय विशेषे भूतलेऽभावः परैः स्वीक्रियते तत्समयविशेषयोग एव भूतलस्य घटाभावः, तथा चाधाराधेयभावधीरप्युपपद्यते समयविशेषयोगस्य भूतलवृत्तित्वात् । तन्न । समयविशेषयोगस्य निःप्रतियोगिकतया अभावव्यवहारासामर्थ्यात समयविशेषस्याधारत्वेनानुभवाच्च इदानीं भूतले घटो नास्तीति प्रतीतेः । न च समयविशेषे समयविशेषयोगोऽभेदे सम्बन्धानुपपत्तेः, दुःखवदात्मभिन्नात्मनः दुखाभावत्वे मोक्षस्या पुरुषार्थतापत्तेः आत्मनोऽसाध्यत्वादिति संक्षेपः ।

भूतलज्ञानस्वरूपाणामननुगतत्वान्नानुगताभावव्यवहारहेतुत्वमित्यतिरिक्ताभावपक्षेऽपि तुल्यमिति यदुक्तं तदभिप्रेत्याह किं पुनरिति । तस्येति ।

 न्यायलीलावतीप्रकाश विवृतिः

तलस्य ज्ञानाद्भिन्नभूतलज्ञानस्य चाभावत्वेऽभावास्वीकारे च दुरवधारणता चेत्यरुचेराह नचेति । अधिकरणानतिप्रसंगादेवेश्यर्थः । दुर्वचत्वात सुवचत्वे वाऽधिकरणादिनिष्ठमेव तन्निरुच्यतामिति भावः । परिमाणान्तरत्वादिति । परिमाणगतजातिविशेषात्मकत्वा.