पृष्ठम्:न्यायलीलावती.djvu/६३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६२ न्यायलीलावती , म् तस्य परसामान्यनियतत्वात् । नापि भावविरोधित्वम्, अ न्योन्याभावे तदभावात् तदर्थांनिरुक्तेथ सहानवस्थानं त दिति चेत्, न । अत्रापि नञर्थाभिधानेऽनवस्था, अन्यथा वैय- र्ध्यम् । नापि भावानात्मकत्वं निषेध्यनिरूप्यत्वं वा, तदनिरु क्तेः । नापि भावान्यत्वम् स्वरूपस्याननुगते: अनुगतस्या- सिद्धेः । नास्तीति बुद्धिवेद्यत्वं तदिति चेत् । न । तदालम्बन स्यैवानुगतस्यासच्यात् (१) । भावेन स्वरूपप्रत्या ( २ ) सन्नत्वं त- , न्यायलीलावतीकण्ठाभरणम् सता तन्नियतत्वात तद्व्याप्यत्वादित्यर्थः । अन्योन्याभाव इति । तस्य भावसमानाधिकरणत्वात् सहानवस्थानलक्षणविरोध्यभावादित्य र्थः । तदर्थेति । विरोधिशब्दार्थस्येत्यर्थः । अत्रापीति | अनवस्थान. पदेऽपि नअर्थः क इति प्रश्ने पुनरन्यत् किञ्चिद्वाच्यमेव तत्रापीत्य. र्थः । अन्यथेति । यद्यनवस्थानपदे नञर्थो न भासते तदा तदभिधानं व्यर्थमेवेत्यर्थः । तदनिरुक्तेरिति । भावानात्मकत्वमत्र नञर्थानिरुक्तेः, निषेध्यं च निषेधप्रतियोगि वाच्यं तत्र च निषेधार्थानिरुक्तेरित्यर्थः । स्वरूपस्येति । भावान्यत्वं यद्यभावानां प्रत्येकं स्वरूपमेव तदाऽननुगमः, सकलाभावानुगतं च तन्नास्त्येवेत्यर्थः । तदालम्बनस्यैवेति । नास्तीति बुद्धेरनुगतं किमालम्बनमित्येव जिज्ञास्यते एतश्च त्वया न निरुक्त न्यायलीलावतीप्रकाशः परसामान्यं सत्ता तन्नियतमपरसामान्यमभावे च तदभावादित्यर्थः । अन्योन्याभाव इति । अन्योन्याभाववत् प्रतियोगिनोरेकत्र स्वकारणे वृत्ते रित्यर्थः । तदनिरुत्तेरिति । नञन्तर्भावनात्माश्रयादित्यर्थः । तदालंवनस्यैवे- ति । बुद्धेरर्थनिरूप्यत्वादित्यर्थः । भावेनेति । प्रतियोगिनाधिकरणेन चा- न्यायलीलावती प्रकाशविवृतिः दित्यर्थ: । तज्ज्ञाने बाघज्ञानं कारणमेवेति भावः । दुःखवदात्मेति । ज्ञा. नस्य चाभावत्वे तन्नाशे मुक्तस्यामुक्तत्वापत्तेरित्यपि द्रष्टव्यम् । न ह्यभा- बत्वमेवेति । यद्यप्यनुगताभावस्य प्रागेव सिद्धौ तस्यैव लक्षणत्वे किं ( १ ) ० गतस्याभाषाव | ( २ ) स्वभावप्र० |