पृष्ठम्:न्यायलीलावती.djvu/६४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ५६३ दिति चेत् । न | समवायादावभावत्वत्प्रसंगात् | मैवम् | सत्ता- सम्बन्धवोधविधुरस्य (१) सत्ताविरहस्यैवाभावप्रत्ययहेतुत्वात् । सच नबर्थनिरुक्तिमन्तरेणापि स्वग्राहकमानसामर्थ्यात् स्वेन रूपेणावभासमानस्वभाव प्रत्यासच्या सर्वभावेष्वसम्बद्ध एवा- न्यायलीलावतीकण्ठाभरणम् । मित्यर्थः । समवायादावित्यत्रादिपदात् ज्ञानेच्छादिसंग्रहः । सत्ता विरहस्य सत्तात्यन्ताभावस्य सामान्यादावपि सरवादाह सत्तासम्ब. न्धबोधसामप्रीविधुरस्येति । एतच्चोत्पननष्टे भावेऽव्यस्तीत्यत उक्तं सत्ता. विरहस्येति । तथाच सद्बुद्धिविरोधिसत्तात्यन्ताभाव एवानुगतोऽ. भावत्वमित्यर्थः । सामान्यादौ सत्तात्यन्ताभावस्य सद्बुद्धिविरोधो नास्ति परम्परासम्बन्धेन प्रमारूपस्य तत्रापि भावात् । ननु सत्ता. त्यन्ताभाव इत्यत्रापि नञर्थनिरुक्त्यपेक्षेत्यत आह सचेति । प्रत्यक्षसि. द्ध एक एवायमतो नानुगतधर्मापेक्षैत्यर्थः । ननु सन्चात्यन्ताभावस्था- भावेषु सम्बन्धाभावात् कथमनुगमकत्वमत आह स्वभावेति । अस न्यायलीलावतीप्रकाशः । भावस्य सम्बन्धान्तराभावादित्यर्थः । समवायादेरिति (२) आदिपदेन ज्ञानादिसंग्रहः । नापि भावप्रतियोगित्वम्, प्रतियोगित्वस्याभावविर. हरूपत्वात् साहश्यादावतिव्याप्तरित्यपि मन्तव्यम् । सत्तेति । सञ्चावि- रहः सामान्यादावण्यस्तीत्यत उक्तं सत्तासम्बन्धेति । सामान्यादौ सत्ताशून्यत्वेऽपि सत्तासम्बन्धारोपास द्धि सामग्री विद्यते न त्वभावे तस्य तद्विरोधित्वेनैव प्रतीतेः । तावन्मात्रं च कस्यचिजातविनष्टस्या व्यस्तीत्यत उक्तं सत्ताविरहेति । ननु विरहस्याभावरूपत्वादात्माश्रयः, अभावस्य चाभावावृत्तेः स्वरूपासिद्धिश्चेत्यत आह स चेति । न ह्यभाव. त्वमेवानिरूपितम, अभावानुगतबुद्धेरबाधितायाः सर्वसिद्धत्वाशात्मा. श्रयो विशेषणतारूपसम्बन्धसत्वाच्च न स्वरूपासिद्धिरित्यर्थः । स्व. भावप्रत्यासस्या विशेषणतयेत्यर्थः । असम्बद्ध एवेति । विशेषणतेतरस. न्यायलीलावतीप्रकाशविवृतिः तन्निरूपणाधीनेन प्रकृतलक्षणेन, असिद्धौ वेदमपि दुर्ब्रहम् । तथा ( १ ) ० बोधसामग्रीविधुरस्य । (२) एतन्मतना मूले समवाय दरभावत्वेति पाठो बोध्यः ।