पृष्ठम्:न्यायलीलावती.djvu/६४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
५६४
न्यायलीलावती


भावप्रत्ययं करोति समवाय इव समवायिव्यवहारम् । न च स्वात्मन्यभावव्यवहार कर्तृत्वविरोधः, प्रमेयत्वविरोधात् []


न्यायलीलावतीकण्ठाभरणम्

म्बन्ध एवाभावसम्बन्धान्य सम्बन्धरहित एव । अभावप्रत्ययन्त्विति । अभावाकारानुगतप्रत्ययमित्यर्थः । समवाय इवेति । घटे रूपसमवाय इत्यत्र यथा समवायः स्वरूपसम्बन्धेनैव विशिष्टव्यवहारं करोतीत्यर्थः । ननु सत्तात्यन्ताभावमादाय कथमयमनुगतव्यवहारः स्यात् नहि स एव तत्रेत्यत आह न चेति । प्रमाणबलादत्रात्माश्रयोऽङ्गीकि-

न्यायलीलावतीप्रकाशः

म्बन्धशुन्य एवेत्यर्थः । अनुरूपं दृष्टान्तमाह समवाय इवेति । ननु सामग्रीविरहस्यातीन्द्रियतया अभावत्वमप्रत्यक्षं स्यात्, किञ्च बोधो ज्ञानमात्रं वा सम्यक्ज्ञानं वा ? । नाद्यः, तमसोऽपि सत्वेन प्रतीतेः । नांत्यः समवायातिव्याप्तेः । अत्राहुः । द्रव्यादिषट्कान्योन्याभाववत्त्वं द्रव्यत्वादिषट्कात्यन्ताभाववत्त्वं वा अभावत्वमित्यभावव्यक्ति विशेषमादाय निर्वाच्यम् । तत्तदभावव्यक्तिश्चानुगताभावत्वं विनाप्यनुभवसिद्धा । यद्वा पटादिन न घट इति समानाधिकरणनिषेधव्यवहारो घटान्योन्या-

न्यायलीलावतीप्रकाश विवृतिः

पि सत्ताविरहव्यक्तिरनुगताभावत्वाप्रतीतावपि प्रतीतैवैति सेवाभावव्यक्तीनामनुगमिकेति भावः । द्रव्यादिषट्केति । अन्यतरत्वावच्छिन्नषट्प्रतियोगिकाम्योन्याभाववत्त्वं द्रव्यरवाद्यवच्छिन्न प्रतियोगिकाम्योन्याभावषद्कावारत्वं चेत्यर्थः । एवमत्यन्ताभावगर्भेपि । अन्योन्याभावो न द्रव्यादि अत्यन्ताभावे न द्रव्यत्वादीति प्रतीतेश्चात्माश्रयोध्ययमदोषाय प्रमेयत्वादाविव । यद्यपि विशेषत्वादेरतीन्द्रिय तयाऽभावात्वप्रत्यक्षं न स्यादिति दूषणमत्रापि, तथापि प्रत्यक्षप्रतीतिविषयोऽभावत्वं स्व रूपसंबन्धविशेषात्मकमेव, इदं तु विभाजकोपाधिभूतं निरुक्तमिति मन्तव्यम् । अनुगताभावत्वनिर्वचनं विनाप्यन्योन्याभावादिकमादायानुगतप्रतीतिव्यवहारसमर्थनं मन्मते घटते, तब तु तदपिनास्तीत्याशयेनाह यद्वेति । नन्वेषं पदार्थानां सप्तत्वस्याहतिरत आह


  1. प्रमेयत्ववदविरोधात् ।