पृष्ठम्:न्यायलीलावती.djvu/६४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
५६५
न्यायलीलावतीकण्ठासरण-सर्विवृतिप्रकाशोद्भासिता


भावबुद्ध्यविषयत्वं वाऽभावत्वम् ।

भिन्न रूपेष्वभावेषु स्वे च रूपे च [] कश्चन ।
असम्बद्धोऽध्यभावात्मा तुल्यबोधप्रबोधकः ॥


न्यायलीलावतीनाण्ठाभरणम्

यत एव, यथा प्रमेयत्वं स्वस्मिन्नपि वर्तते, अन्यथा तस्य केवला. न्वयित्वं भज्येतेत्यर्थः । ननु प्रमेयत्वस्य केवलान्वयित्वात्प्रमाविषयत्वाच्च तथात्वमस्तु, अत्र तु तथा कथं स्यादित्यनुशयादाह भावबुद्धीति । भावत्वप्रकारकबुघ्घविषयत्वमित्यर्थः । न ह्यभावो भावत्वेन गृह्यत इत्यर्थः । आद्यं पद्येन संगृह्णाति भिन्नरूपेष्वभावेष्विति । नन्वेवं तमः

न्यायलीलावतीप्रकाशः

भावेनैकेन, घटादौ न गोत्वमित्यनुगतो गोत्वाभावव्यवहार एकेनात्यन्ताभावेन, कपाले भूतले इदानीं घटो नष्ट इत्यनुगतंव्यवहार एकेन ध्वंसेन, घटानुत्पाददयायामेतेषु घटो नास्तीत्यनुगतव्यवहारः प्रागभावणैकेनेति चत्वारो निषेधव्यवहाराश्चतसृभिरेव व्यक्तिभिः क्रियन्ते तासां निरुक्तेनैव रूपेणैकपदार्थत्वम् । सम्प्रदायविदस्तु सत्ताभान विरोधिप्रकारवत्वमभावत्वम्, समवायादिकं हि भासमानं सदित्येव भासत इत्याहुः । भावबुद्धीति । भावालम्बनत्वात्यन्ताभाववद्बुद्धिविषयत्वमित्यर्थः । न च प्रतियोगिना समान संवित्संवेद्यत्वादीडशी वुद्विरभावगोचरा न प्रसिद्धेति वाच्यम् । प्राधान्येन विष यत्वस्य विवक्षितत्वादिति भावः । उक्तमर्थं संगृह्णाति भिन्नरूपेष्विति । कश्चनास-

न्यायलीलावती प्रकाशविवृतिः

वासामिति । [] तमो यद्यपीति । तथाच प्रागभावत्वादिकं न सत्तामानविरोधीत्यसिद्धं लक्षणमिति भावः । तथापीति । प्रागभावत्वादिना तज्ज्ञाने तत्र चलनाद्यारोपो न स्यादिति तत्र न भासत एवेत्यर्थः। प्रकार इत्यनन्तरं भासत इति शेषः । वस्तुतस्तथासति प्रतीत्याकारो न स्यादित्यन्यथा फक्किकागतिः । तथाहि प्रागभावत्वादिभाने सत्यपि तत्र सत्ताधारोपो विषयरूपदोषमाहात्म्यादिति वस्तुगतिः । तथा


  1. ० स्वेन रूपेण० ।
  2. एतत्प्रतीकधृतमन्थस्य प्रकाशे दर्शनादत्र वर्धमानकृतक्रोडफक्कि काव्याख्यांनमिदमिति प्रतिभाति ।