प्रमेयत्वं यथान्यत्र स्वे च रूपे [१] तथाविधम् । |
एवं सत्यभावमतिव्यर्थता इति चेत् । न । तस्य सामान्य-
न्यायलीलावतीकण्टाभरणम्
संग्रहो न स्यात्, नहि तत्र सत्ताबोधसामग्रीवैधुर्यमिति चेत् । न, स्व रूपतस्तत्रापि तद्वैधुर्यात्, क्रियागुणारोपाधीना कथञ्चिदेतदुद्धिरित्यन्यदेतत् । द्वितीयमनुगमकं संगृह्णाति-भावत्वप्रकारकबुद्धिर्विषया भावत्वेनाविषयत्वेन यन्त्रिता सती, व्यवहारस्य भावत्वप्रकारकबुध्यैव उपपादनादित्यर्थः । परिहरति तस्येति । नास्तीति व्यवहारस्य व्य-
न्यायलीलावतीप्रकाशः
म्बद्धोव्यभावात्मा भिन्नरूपेष्वभावेषु स्वे च रूपे स्वात्मनि च तुल्यं यथास्यादेवं बोधजनक इति योजना । भावबुघ्घविषयत्वं वेति संगृह्णाति भावत्वबुद्धिरिति । भावत्वबुद्धेरनुगतायाः यो विषयो भावस्तभावेन यन्त्रिता भावविषयत्वात्यन्ताभाववतीत्यर्थः । एवंसतीति । यदि तावत्सर्वाभावव्यक्तीर्न जानाति कथं पृच्छति सर्वाभावानुगतः को धर्म-इति । अथ जानाति तदा तनिश्चयार्थमनुगतधर्म स्वीकारो व्यर्थ इत्यर्थः । तस्य सामान्येति । तस्येत्यार्थी निर्देशः । विशिष्यनिश्चितेष्वपि सामान्यजिज्ञासायां तस्या बुद्धेश्चरितार्थयितुं शक्यत्वादित्यर्थः ।
न्याय लीलावती प्रकाश विवृतिः
च तत्र प्रागभावत्वादिः प्रकारो न सत्ताभानविरोधीति चलनाधारोपात् कल्य्यत इति योजना । न चैवं तत्रैवाव्याप्तिः । अन्यत्र विरोधिनः प्रागभावत्वादेरत्रापि विद्यमानत्वादिति भावः। भावगोचरसमूहालम्बनमादाय सम्भवाद्याचष्टे भावालम्बनत्वेति । भावविषयकत्वेत्यर्थः । प्राधान्येनेति । प्रतियोगिदल इति शेषः । प्रबोधक इत्यस्यैव बोधजनक इत्यर्थे बोध इत्यनर्थकमत आह योजनेति । तथाच प्रबोधक इत्यस्य जनक इत्येवार्थ इति भाव । कथं पृच्छतीति । किम्पुनर्नञाभि-
- ↑ ० स्वरूपे च त० ।