पृष्ठम्:न्यायलीलावती.djvu/६४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
५६७
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


विशेषविषयसाकाङ्क्षत्वे सामान्यव्यवस्थाया एवापेक्षणात् ।

 स पुनक्ष्चतुर्धा । प्राकूत्रध्वंसात्यन्तान्योन्याभावात्मा । उत्तरैकावधिरभावः प्रागभावः । प्रागेकावधिरभावो ध्वंसः । प्रागभा-


न्यायलीलावतीकण्ठाभरणम्

वहर्तव्यगतः सामान्यविशेषो यो विषयस्तत्साकाङ्क्षवं, तथाच व्य वहर्तव्येऽङ्गं यावदेकं सामान्यं नोच्यते तावदनुगतव्यवहार एव नोत्पद्यते स चाभावेऽनुगतो धर्मो भावत्वप्रकारकबुद्ध्यविषयत्वमित्यर्थः । व्याख्यानान्तरं चिन्त्यम् ।

 सिद्धमभाव विभजते स पुनरिति । उत्तरैकेति । यद्यप्युत्तरावघिरभाव इत्येवोचितम्, अन्येषामभावानामत द्रूपत्वात् । तथाप्युत्पादविनाश

न्यायलीलावतीप्रकाशः

उत्तरैकेति। ननून्तरत्वं स्वसमानकालप्रतियोगिकध्वंसस मानकालीनत्वम्, ध्वंसश्च प्रागभावप्रतियोग्यभावइत्यन्योन्याश्रयः । न च प्रतियोगिजनकोSभावः प्रागभावः, प्रागभावावच्छिन्नकालवृत्तित्वं जनकत्वमित्यन्योन्याश्रयात् । नाप्यदृष्टानधिकरणकालानधिकरणाभावः, स्वर्गयागयोः कार्यकारणभावे गृहीते सत्यपूर्वकल्पनमित्यन्योन्याश्रयात् । नापि गन्धानधिकरणकालानधिकरणाभावः लीलावतीकारैः सर्वमुक्तेरन भ्युपगमात् । प्रतियोग्याघारमात्रवृत्तिरभावो ध्वंसस्तत्प्रतियोग्यभावः प्रागभावः, प्रागभावस्तु न तथा तस्य कारणत्वेन निमित्तकारणादिवृत्तित्वादिति चेत् । न । आश्रयनाशजन्यध्वंसाव्याप्तेः । उत्पत्तिमान-

न्यायलीलावतीप्रकाश विवृतिः

धेयमित्यादिनेति । स्वसमानकालेति । प्रतिक्षणं कस्यचिदुत्पत्तिः कस्य चिद्विनाश इति सिद्धान्तेन घटाद्यव्यवहितोत्तरेऽपि नाव्याप्तिः । सर्वमुत्तयनभ्युपगमदोषे सत्येवाह । स्वर्गयागयोरिति । अपूर्वकल्पनमिति । तत्कल्पने च तद्धटितप्रागभावत्वग्रहे तद्घटितकारणताग्रह इति शेषः । प्रतियोगीति । प्रतियोगिसमवायीत्यर्थः । मात्रपमन्योन्या भावादिव्यार्वतनाय । प्रागभावस्य कारणत्वेनेति । कारणं दण्डसंयोगादिः निमित्तकारणेऽपि वर्त्तत इति तत्प्रागभावस्थापि निमित्तकारणत्वे क्षत्यभावात् प्रतियोग्युत्पत्तिनियमश्च समवायिकारणस्वाभाव्यादित्यर्थः । स्वसमानकालेति ।