वनिवृत्तिनिवृत्तौ तदुन्मज्जनापत्तिरिति चेत् । न । ध्वंसस्यापि तद्विरोधित्वात् [१] । एवंसति भावाभावानेवृत्त्या तदुभयात्मकतापत्तिरिति चेत् । न । विधिमुखवेद्यत्वा वेद्यत्वयोस्तल्लक्षणत्वात् ।
तन्निषेधनिषेधविधवपि प्रागभावाविधानेऽन्योन्याभावात्मकत्वं
भावाभावयोर्भज्येत एकतरनिषेधेऽप्यपरस्याविधाना [२]दिति
न्यायला लावतीकण्ठाभरणम्
शीलास्यन्ताभावाभ्युपगन्तृमते तद्वारणार्थमेकपदम् । तथाच प्रतियोगिजनकोऽभावः प्रागभावः । न च जनकत्वमपि प्रागभावनिरूप्यमित्यन्योन्याश्रयः, पूर्वकालवर्तित्वं हि जनकत्वम् पूर्वकालश्च प्रागभावावच्छिन्नः काल इति वाच्यम् । सहकारिविरहप्रयुक्त कार्या
न्यायलीलाबतीप्रकाशः
मावो ध्वंस इति चेत् । न । उत्पत्तेः स्वसमानकालपदार्थप्रतियोगिकध्वंसानाधारसमय सम्बन्ध रूपत्वेनान्योन्याश्रयात् । अत्राहुः । प्रतियो ग्यग्यूनानतिरिक्तकालीनावाधक सामयिकयावत्परत्वाश्रय समानकाली नकादाचित्काभावः प्रागभावः, गुणकर्मणोः प्रागभावेऽपितत्समानकालीनावधिक परत्वाश्रय समानकालीनत्वान्न तदव्याप्तिः, किञ्चिदवधिना शे किश्चित्परत्वाश्रयस्यापि नाशाद्यावदर्थाभावात् । यत्र परत्वावधिप्रति-
न्यायलीलावती प्रकाशविवृतिः
प्रतिक्षणं कस्यचिदुत्पत्तिः कस्यचिद्विनाश इति सिद्धान्ते द्विती यादिक्षणस्य तादृशध्वंसाधारत्वान्नातिव्याप्तिरिति भावः । न च चरमध्वंसोत्पत्तावव्याप्तिः मूलकृता तदनङ्गीकारात्तदनुसारेणैवात्र विचारादिति भावः । प्रतियोगीति । प्रतियोग्यवधिकेति कृते गुणकर्म प्रागभावेऽव्याप्तिस्तदवधिक परत्वाभावादपरत्वाश्रयस्यैव परत्वाव धित्वादत आह अन्यूनेत्यादि । तथा च तादृशं द्रव्यमादाय तत्रापि लक्षणं समानमिति नोक्तदोषः । न च प्रतियोग्यन्यूनकालीनेत्येव सम्यक, गणनाक्रमेण ताडशप्रतियोग्युत्तरकालनं यद्द्रव्यं तदवधिकपरत्वाश्रयप्रतियोग्यपीत्यसम्भवापत्तेः । नचानतिरिक्तपददानेप्येष दोषः । पदाभ्यां प्रतियोगिकालव्यापककालत्वस्य विवक्षितत्वात् । अत