पृष्ठम्:न्यायलीलावती.djvu/६४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७२ न्यायलीलावती नियमात् । उभयविरोधिनि तु घटवत्तदभावात् । तथापि परस्प- राभावात्मकता कुत इति प्रश्नेऽपि अन्यतरविषयस्यान्यतरवि- धिनियमाभावेऽपि एकतरविधेरपरनिषेधनियामकत्वादिदमुत्तरम् । नहि प्रध्वंसविधौ न प्रागभावनिषेधः । तद्विधौ च न प्रध्वंसनि- षेधः । एवंसति ध्वंसोऽपि नश्येत् कृतकत्वात् । भागभावोऽपि जायेत, नाशित्वात् | उन्मज्जनापत्तेचिरमिह निहतत्वात् । अ न्यथा तु प्रकृतेऽपि न समाधिरिति चेत् । न । असंभवद्विरुद्ध- , न्यायलीलावतीकण्ठाभरणम् परस्परविरहरूपत्वं यथा गोत्वगोत्वात्यन्ताभावयोः प्रकृते तु घट. तद्ध्वंसतत्प्रागभावानामुभयोभयविरोधित्वान्न तथेत्यर्थः । परस्परा- भावात्मकता कुत इति । परस्पराभावात्मकता व्यवहारः कुत इति ध्वंसा- दीनामिति प्रश्नार्थः । परस्परविरहव्याप्यत्वनिबन्धन इत्याह अन्यत रेति । एतदेवाह नहीति । तर्हि नीलपीतादावपि तथा स्यादिति चेत् । न । अभावत्वे सतीति विवक्षितत्वात् | उन्मज्जनापत्तरिति । अन्योन्यवि रोधिसत्वकाले कथमन्योन्योन्मज्जनं स्यादित्युक्तत्वादित्यर्थः । तथा- व घटध्वंसस्यापि घटविरोधित्वान्न तदा तदुन्मज्जनमिति भावः। अन्यथेति । घटध्वंसकालेऽपि तथासति प्रागभावोन्मज्जनं स्यादेवेति प्रकृतेऽपि न समाधिरित्यर्थः । असंभवदिति । प्रध्वंसप्रागभावयोरेकत्वेन प्रत्यभिज्ञानाच नाशोत्पादौ, तयोरनुमाने च भावत्वमुपाधिरित्यर्थः । न्यायलीलावतीप्रकाशः धावित्यर्थः । एकेति । यत्र द्वयोरेव मिथो विरोधस्तत्र तथा, अत्र त्वेक. स्योभाभ्यां विरोध इत्यर्थः। घटवदिति । यथा घटे सति प्रागभावो नां. स्ति तथा प्रध्वंसे सतीति तस्यापि विरोधित्वादित्यर्थः । एवंसंतीतिः । ध्वंसस्योत्पत्तिमत्त्वे प्रागभावस्य नाशित्वे सतीत्यर्थः । न चैवं घटप्रध्वं- सनाशकाले घटोन्मजनमेवं तत्र प्रागभावोत्पतेः पूर्व घटः स्यादित्याह उन्मज्ञ्जनेति । ध्वंसध्वंसस्यापि घटविराधित्वादेवं प्रागभावप्रागभाव- स्यापीत्यर्थः । अन्यथेति । प्रागभावस्य घटध्वंसोभयविरोधित्वेऽपि घट जाते तत्प्रागभावोन्मज्जनाप तेरित्यर्थः । असम्भवदिति । प्रत्य