धर्मासंसर्गप्रत्यभिज्ञानप्रतिक्षिप्तत्वादनुमानानां लाघवाच्च । पूर्वोत्तराबधिरहितस्तु संसर्गप्रतियोगि कोऽभावोऽत्यन्ताभावः ।
न्यायलीलावतीकण्टाभरणम्
लाघवाचेति । बहूनां ध्वंसानां घंटे विरोधित्वाभ्युपगमे गौरवं स्यादिस्यर्थः । पूर्वोत्तरेति । प्रागभावव्यावृत्यर्थम् उत्तरेति, ध्वंसव्यावृत्यर्थम् संसर्गप्रतियोगिक इति, अन्योन्याभावव्यावर्तनाय चान्योन्याभावेति पदं देयम् ।
न्यायलीलावतीप्रकाशः
भिज्ञानात्पूर्व चिरकालीनयोर्ध्वसप्रागभावयोरभेदसिद्धौ उभयोशोत्पत्त्यनुमानं बाधितमित्यर्थः । साधनावच्छिन्न साध्यव्यापकं भावत्वमुपाधि : सन्नपि स्फुटत्वानोक्तः । लाघवात कल्पनालाघवादपि तयोरकैयं सिद्धमित्यर्थः । पूर्वोत्तरेति । पूर्वोत्तरेत्यनेन ध्वंसप्रागभावयोर्यावृत्तिः, संसर्गेत्यनेनान्योन्याभावस्य । ननु घटसंसर्गः पटो न भवतीत्यत्रा न्योन्याभावेऽतिव्याप्तमिदम् । न च संसर्गाभावत्वे संतीति विशेषणीयम, तदनिरुक्तेः । न च प्रतियोगिवृत्तिरभावोऽत्यन्ताभावः नित्यत्वात्यन्ताभावेऽतिव्याप्तेः प्रमेयत्वव [१] न्नित्यत्वस्य स्वात्मन्यपि वृत्ते:, अन्यथा नित्यत्वाभावकाले व्योमादेरनित्यतापत्तेः । न च मित्यत्वम नेकमननुगमात् । अत्राहुः । सदातनः संसर्गभावोऽत्यन्ताभावः, संसर्गाभावश्च संसर्गावच्छिन्न प्रतियोगिकोऽभावः, घटसंसर्गः पढ़ो नेत्यत्र तु संसर्गप्रतियोगिकत्वेऽपि तादात्म्यं प्रतियोगितावच्छेदकं न तु संसर्गः । अस्मत्पितृचरणास्तु प्रतियोग्यधिकरणयोः संसर्गमा-
न्यायलीलावती प्रकाशविवृतिः
गौरवादिति भावः । ध्वंसप्रागभावयोरिति । ध्वंसयोः प्रागभावयोश्चत्यर्थः । नाशोत्पत्तीति । नांशानुमानमुत्पश्यनुमानं च यथासंख्यमन्वयः । मूले च बहुवचनं द्वित्वाभिप्रायमेवेति भावः ।
तस्येति । नित्यत्वस्येत्यर्थः । अननुगमादिति । तथाचानुगतप्रतीत्या तस्यैकत्वसिद्धिरिति भावः । ननु संसर्गस्य न प्रतियोगितावच्छेदकत्वं सर्वत्र तथासति संसर्गों नेति सर्वत्र प्रत्ययांपत्तेरित्यरुचे-
- ↑ विवृतिकारमतेनात्र 'वत्तस्य' इति पाठो बोध्यः ।