पृष्ठम्:न्यायलीलावती.djvu/६५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
५७४
न्यायलीलावती


 ननु गवात्मनाऽश्वाभावोऽप्यत्यन्ताभाव एव, निरवधित्वात् । तदपार्थकं संसर्गप्रतियोगित्वम् । यथा एक एव ध्वंसो भावाभावनिषेधात्मा न भिद्यते तथात्रापि न्यायस्य तुल्यत्वात् । तत्कुतोऽभावस्य चातुर्विध्यमिति चेत् । न । अन्योन्याभावस्य निषेध्यसमानदेश कालत्वात् । तस्य तु तदभावात् । अर्धरक्ते समानदेशकालत्वं भावाभावयोरिति तस्यापि पञ्चमाभावत्वम् । अस्य वा वैधर्म्यस्याप्रयोजकत्वेऽभावत्रैविध्यमिति चेत् । न ।


न्यायलीलावतीकण्ठाभरणम्

 अपार्थ कमिति । अव्यावर्तकमित्यर्थः । भावाभावेति । घटतत्प्रागभावनिषेधात्मा नेत्यर्थः । अत्रापीति । तादात्म्यनिषेधात्मा संसर्गनिषेधात्मा च एक एवाभाव इत्यर्थः । अन्योन्याभावस्येति । समानदेशत्वमात्रे वक्तव्ये समानकालत्वाभिधानं सम्पातायातम् । तस्य विति । अत्यन्ताभावस्येत्यर्थः । प्रतियोगिवृत्तिरभावोऽत्यन्ताभाव इति तु न लक्षणम् । नित्यत्वात्यन्ताभावाव्याप्तेः तस्य च तत्रावृत्तेः, नित्यत्वस्यापि नित्यत्वात् तदनित्यत्वे नित्यानामनित्यत्वापत्तेः । ननु संयोगात्यन्ताभावस्य नान्योन्याभावत्वं संसर्गप्रतियोगिकत्वात्, नात्यन्वाभावत्वं प्रतियोगिसमानदेशत्वात्, तथा चासौ पंचमो वा स्यादप्यन्योन्याभावात्यन्ता-

न्यायलीलावतीप्रकाशः

रोग्य यो निषेधः स संसर्गाभावः, घटसंसर्गः पटो नेत्यत्र तु संसर्गो नारोग्यते, किन्तु तादात्म्यमित्यनयोर्भेदः ।

 पूर्वपक्ष्येवाह यथैक एवेति । यदा तु अन्ते चेदिति पाठस्तदा सुगम एव । संयोगाव्याप्यवृत्तित्वमाश्रित्याह अर्द्धरक्त इति । प्रतियोगिसमानदेशकालतया तस्यात्यन्ताभावत्वाभावात्, संसर्गप्रति-

म्यायलीलावतीप्रकाशविवृतिः

राह अस्मत्पितृचरणास्विति । प्रतियोग्यधिकरणसंसर्गविषयतया यस्यारोपत्वमित्यर्थः । तेन प्रतियोगिनमार्धकरणे समारोध्येत्यथ न लभ्यते अत एव चिन्तामणौ तथैवास्ति । तादृशारोपजन्य तावच्छेद कं च स्वाभावाभावत्वमेवेति दिक् । निषेधः निषेवप्रत्ययः स तद्विष-