पृष्ठम्:न्यायलीलावती.djvu/६५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
५७५
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोङ्गासिता


तत्रावच्छेदकस्य सत्त्वात् । अवच्छेदकस्य भावैकनियमेन न भेदो, नियमेन पुनः समानदेशत्वम्, अवच्छेदकान्तरोपादाने त्वनव- स्थितिरिति चेन्न । युगपद्भावाभावयोरप्रतीतिरेव । एकस्य देशका


न्यायलीलावतीकण्ठाभरणम्

भावयोर्लक्षणं न वाध्यमित्याह अर्धरतेति । तत्रेति । अवच्छेदभेदन प्रतियोगिसमानदेशत्वाभावादसावत्यन्ताभाव इत्यर्थः । अवच्छेदकस्येति । यद्यवच्छेदको व्याप्यवृत्तिस्तदा तद्गतोपि न देशभेदः, अनियम तस्याव्यव्याप्यवृत्तितायां पुनः समानदेशत्व मेवावच्छेदकभावाभावयोस्तत्राव्यवच्छेदकान्तरकल्पनेऽनवस्थेत्यर्थः। संयोगतदत्यन्ताभावयोर्याप्यवृत्तितामभ्युपेत्याह युगपदिति । नहि तत्रैव संयोगः प्रतीयते तत्रैव तदभावोपि, किन्तु संयोगोऽवयविनि तद्भावस्त्ववयवे प्रतीयते । न चैवं संयोगोष्यवयववृत्तिः स्यादिति वाच्यम् । तथासति तस्य परमाणुपर्यन्तमपसारणेऽतीन्द्रियतापत्तेः । न चैवमभावेपि स्यादिति वाच्यम्। प्रतियोगिपरतया ह्यभावप्रतीतिर्न त्वभाव एव तत्र प्रतियोगिप्रतीतिरिति । संयोगातीन्द्रियतायामुभयोरप्यतीन्द्रियत्वं प्रसज्येत, अ-

न्यायलीलावतीप्रकाशः

योगिकतया चान्योन्याभावत्वाभावादित्यर्थः । तत्रेति । यदवच्छेदेन प्रतियोगी तदवच्छेदेनात्यन्ताभावासत्त्वादित्यर्थः । अवच्छेदकस्येति । भावैकनियमेनाधिकरणेऽवच्छेदकस्य भाव एव नाभाव इत्येवंरूपेण न भेदो भावाभावव्यवस्थापकावच्छेदेनात्यन्तामावासत्वादित्यर्थः । अवच्छेदकस्यै कत्राधिकरणे भावाभावसत्वेनावच्छेदकभावाभावयारेव समानदेशत्वमित्यर्थः । संयोगस्याव्याप्यवृत्तित्वमनभ्युपगम्य समाधत्ते युगपदिति । क्रमेणेति । तथा च संयोगाभाव उपाध्याश्रय एव । नचैवं संयोगोऽप्युपाध्याश्रय एव स्थात्, संयोगस्याऽवच्छेदकेनान्यथासिद्धौ परमाणुविश्रान्तेरतीन्द्रियत्वा पत्तैरिति भावः । अवयवि-

न्यायलीलावती प्रकाशविवृतिः

याभाव इत्यर्थः । पूर्वपक्ष्येवेति । प्रतियोगिकत्वमित्यनन्तरमिति चेदिति पाठपक्षे अंते चातुर्विध्यमित्यनन्तरम् । अवयविनाति । घटादौ द्वावप्यवच्छेदकेनान्यथासिद्धौ तदवयवस्य स्थूलतया तत्रातीन्द्रियत्वा-