ऴपुरुषभेदेन उपलम्भानुपलम्भयोरसिद्धेः । क्रमेण प्रतीतिरुपाघिभेदसाहित्येनैव । उपाधिभेदसाहित्य अन्तरेण चैकत्र भावाभावौ विरुद्धाविति सर्वत्र दृष्टम् । अत्र तु तदभावादविरुद्धौ भविव्यतः । तादात्म्यप्रतियोगिकोऽन्योन्याभावः । तदसिद्धम् । तत्र
न्यायलीलावतीकण्ठाभरणम्
भावातीन्द्रियत्वे तु न काचित्क्षतिर्विनिगमकुसत्त्वात् । संयोगस्तावदवयविन्येव तदत्यन्ताभावस्त्वनुभवबलादवयव इति भावः । सिद्धान्तविरोधभयेन पुनरव्याप्यवृत्तित्वमेव तयोराह उपाधिभेदेति । अवच्छेदभेदमादाय तावेकत्रैव वर्तेते । यत्र तु नावच्छेदभेदस्तत्र विरोधोऽत्र तु तदभावादुपाधिभेदस्य बिरहाभावादविरुद्धौ समानाधिकरणौ भविष्यत इत्यर्थः । तादात्म्येति । तादात्म्यावच्छिन्न प्रति-
न्यायलीलावतीप्रकाशः
नि संयोगतदभावौ द्वावण्यवच्छेदके नान्यथासिद्धाविति द्वावव्यवयविनिं न स्यातामित्यव्याप्यवृत्तिरेव संयोग इत्याशयेनाह उपाधिंभेदेत । तादात्म्येति । ननु तादात्म्यप्रतियोगिक संसर्गाभावेऽतिव्यापकमिदं, तादात्म्ये च न द्वयोरभेदस्तस्याप्रसिद्धेः, प्रसिद्धौ वा न भेदः, नापि स्वरूप मेकत्वं वा, अभावान्तरस्यापि तत्प्रतियोगिकत्वात् । नापि प्रतियोगिसमानदेशकालोऽभावोऽन्योन्याभावः, देशकालशुन्यान्योन्याभावेऽव्याप्तेः, धर्मांत्यन्ताभावेनैवोपपत्तौ भेदे मानाभावश्च, 'सविशेषणे ही ' तिन्यायेन घटीयं नेति धर्मस्य निषेधात्, कंथमन्यथा कठपु
न्यायलीलावतीप्रकाशविवृतिः
पत्तेरभावादिति भाव: । नापि प्रतियोगीति । प्रतियोगिसमानदेशत्वे प्रागभावादावतिव्याप्तिः प्रतियोगिसमानकालत्वे चात्यन्ताभावत्वे अतिव्याप्तिरित्युभयमुपात्तम् । देशकालशून्येति । दिक्कालान्यान्योभाव इत्यर्थः । न च दिक्कालयोरपि प्रतीतिबलादांत्माश्रयमवधूय दिशि काले च वृत्तिरेव तदन्योन्याभावयोरपि प्रतीत्तिबलादित्तीयमव्यातिरयुक्ता, तथापि देशपदं दिक्कालातिरिक्तदेशपरमेव वाच्यमन्यथारयन्ताभावातिव्यास्तथासतीदं दूषणम्, एवञ्च देशकालेत्यत्र कालपदं संपातायातमित्यवधेयम् । धर्मेति । प्रतियोगितावच्छेदकधर्मेत्यर्थः । कथमन्यथेति । कठपुत्रविशेषान्यत्वे परिच्छिन्ने विशेष क-