मानाभावात् । भिन्नबुद्धिरिति चेत् । न । तदभावेऽपि घटतदभावयोर्भिन्नबुद्धिदर्शनात् । तत्र स्वरूपालम्बन मिति चेत् । न । यावेष्वपि तुल्यत्वात् । आरोप्यते तत्राप्य [१]
भाव इति चेत् । न । अभा-
न्यायलीलावतीकण्ठाभरणम्
योगिक इत्यर्थः । इदमिदं न भवति नेदमिहेति प्रतीतिभेद्कृत एवानयोर्भेद इति भावः । तदभावेपीति | अन्योन्याभावत्वाभावे पीत्यर्थः । नझभावेऽभावान्तरं वर्तते तथा सत्यनवस्था स्यादिति भावः । आरोप्यत इति । घटो घटाभावो न भवति इत्यारोपितान्योन्याभावनिबन्धनेयं प्रतीतिरित्यर्थः । अन्योन्याभावश्चेत्तत्रारोपितस्तदाभावस्य
न्यायलीलावतीप्रकाशः
त्रान्यविशेषत्वेन परिच्छिन्ने कठपुत्रविशेषभ्रमः तदन्योन्याभावपरिच्छेदात् । कथं वा नायं कठपुत्र इत्यग्रे बाधकम् ? प्रागेव तद्भेदपरिच्छेदात् । सर्वकठपुत्रान्यता न परिच्छिन्नेति चेत् । न । सर्वपदस्यापि तत्तव्घक्तिवचनातू, न ह्यन्यः कठपुत्रः । धर्माभावालम्बनत्वेन तु तदग्रहान्नायं दोषः । मैवम् । तदन्यकठपुत्रनिश्चये सम्भावनायां वा भ्रमाव, अग्रे बाधकमपि तदन्योन्याभावग्रहात्, अन्यथा तु भ्रमाद्यभाव एव, घटोऽयं नेति धर्मिणः प्रतियोगित्वग्रहात्, बाधकं विनैतदनादरेऽति प्रसङ्गात्, धर्म्यभावग्रहेऽपि धर्मात्यन्ताभावग्रहसम्भवाच्च । लक्षणं
न्याय लीलावती प्रकाशविवृतिः
ठपुत्रत्वे न भ्रम इत्यर्थः । तदन्यकठपुत्रेति । तद्धर्मावच्छिन्नान्योन्याभावग्रहस्य तद्धर्मप्रकारकभ्रमविरोधितया कठपुत्रत्वावच्छिन्नान्योन्याभावाग्रहाद्द्रम इत्यर्थ। अन्यस्य कस्यचन कठपुत्रत्वेन भ्रमविषयस्याभेदस्तत्रारोप्यते तदन्योन्याभावग्रहादित्यर्थ इत्यन्ये । अन्यथेति । प्रागेव सामान्यान्योन्याभाव परिच्छेदेऽन्यस्य कठपुत्रत्वेन भ्रमाभा- वो वेत्यर्थः । धर्मिण इति । तथाच प्रतीतिलैक्षण्यादेवोभयोर्भेद इत्यर्थः । ननु तयोर्भेदे तदन्योन्याभावग्रहकाले तद्धर्मात्यन्ताभावसंशयः स्या दत आह धर्म्यभावेति । तथाच तुल्यसामग्रीकत्वेन धर्मास्यन्ताभावस्थापि तदा ग्रहान संशय इति भावः । क्वचिद्धर्माभावेति पाठस्तत्रा
- ↑ अपीति नोस्ति मु० पुस्तके ।