न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ५८१ मपञ्चमत्ययस्य सञ्चात् । ब्रह्मसंवेदनमिदानीं नास्तीति चेत् । न। नहि ब्रह्म संवेदना (न)न्तरवेद्यम् | न च ब्रह्मस्वरूपमिदानीं नास्तीति । श्रुतिवाक्यजो विशिष्टब्रह्मानुभवो नास्तीति चेत् । न । तस्याप्यनुभवरूपस्य ब्रह्मरूपानतिरेकात् । ब्रह्मणोऽभिन्नत्वेन क ल्पिताऽनुभवो नास्तीति चेत् । न | कल्पितस्यासत्त्वेन कल्पनात्वेन वा अबाधकत्वात् । अद्वैतश्रुतेश्च द्वैताव भासिप्रत्यक्ष विरोधेन (१) ग्रावप्लवनश्रुतिवदुपचरितार्थत्वात् । अध्यक्षमविद्याखेन न तस्था बाधकमिति चेत् | तुल्यं प्लवनेऽपि । किं चास्याऽविद्यात्वम् । न्यायलीलावतीकण्टाभरणम् श्रुतिरित्यर्थः । बाधितत्वादिति | भेदग्राहिप्रत्यक्षबाधितत्वादित्यर्थः । ब्रह्म संवेदनेपीति | ब्रह्मणः स्वप्रकाशस्येदानीमपि सरवादित्यर्थः । इदानोमि- ति । संसारदशायामित्यर्थः । प्रकाशत्वात् नित्यत्वात् इदानीमपि तत्लत्वमाह नेति । श्रुतिवाक्यज इति । श्रवणानन्तरमुपनिषज्जनितेन ब्रह्मानुभवेन प्रपञ्चबाधः स चेदानीं नास्तीत्यर्थः । तस्येति । स्वातिरेके तु द्वैतापत्तिरिति भावः । अविद्याशायां श्रुतिजन्यत्वेन कल्पितो. योऽनुभवः स नास्तीत्याह ब्रह्मण इति । असतो न बाधकत्वं न वा क. ल्पनाया इत्याह असत (२) इति । ननु तथाप्यद्वैतपराणां प्रामाण्यादद्वैतं सिद्धमेवेत्यत आह अद्वैतेति । उपचरितार्थत्वादिति । मुमुक्षुभिरेकब्रह्मैव ध्ये. यमित्यत्र तासां तात्पर्यादित्यर्थः । तस्या इति । अद्वैतश्रुतेरित्यर्थः । न्यायलीलावतीप्रकाशः ति श्रुतिर्मानमित्यर्थः । योग्यताज्ञानं शाब्दधीहेतुः, सा च बाधकामा- बरूपात्र नास्ति साक्षात्कारं प्रति शरीरादेर्जनकत्वात्मोक्षे तद्बाघस्य बाधकमानस्य सवादित्याह बाधितत्वादिति । नापि ब्रह्मसंवेदनं प्रपञ्च बाघं प्रति जनकमित्याह ब्रह्मसंवेदनेपीति | नहीति | ब्रह्मणो ज्ञानरूपतया स्वप्रकाशत्वात्तस्य चेदानीमपि नित्यतया सरखाच बाधादित्यर्थः । उपचरितेति । मुमुक्षुणान्यद्विहायात्मैवाद्वितीयो भावनीय इत्येवंपर (१) विरोधादिति प्रा० पु० पाठः | (२) शंकरमतनाच मूले कल्पितस्यासतः कल्पनात्वेनेति पाठो बोध्यः |
पृष्ठम्:न्यायलीलावती.djvu/६५८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति