न्यायलीलावती नित्यमुखाभिव्यक्तिर्मुक्ति रित्यपरे । तन | सुखस्याभिव्य- क्तर्नित्यत्वे असंसारप्रसङ्गात् । तयोः सम्बन्ध उत्पाद्य ( १ ) इति चेत् । न । भावस्योत्पत्तिमतो विनाशित्वेन मुक्तस्यापि सुखासं• वेदनप्राप्तेः । संसारिसुखस्यापि तथात्वापत्तेः सुखतज्ज्ञानयो- रुत्पन्न योर्ध्वंसद विनाशित्वमिति चेत् । न । भावस्योत्पत्तिमतो विनाशित्वनियमात् । तयोरेव प्रवाहानित्यत्वमिति चेत् । न । तद्वदेव देहादेरपि प्रवाहनियमस्वीकारसंगात् । सुखस्य देहभो- ग्यत्वनियमात् । अन्यथा स्वर्गेऽपि देहविरहापत्तेः । न चात्र प्रमा- न्यायलीलावतीकण्ठाभरणम् भट्टमतमाह नित्येति । तयोरिति । सुखतदभिव्यक्तयोरित्यर्थः । यथा जन्यत्वं विनाशिवे न तन्त्रं ध्वंसस्याविनाशदर्शनात् तथा प्रमाणब- लाद्भावोपि जन्यः कश्चिदविनाशी स्यात्, तथाच श्रुतिरानन्दं ब्रह्मणो रूपं तच्च मोक्षे प्रतिष्ठितमित्याह सुखतज्ज्ञानयोरिति । जन्यभावत्वं विना शित्वं प्रति तन्त्रम्, निरुपाधिसम्बन्धशालिश्रुतिस्त्वन्यथोपपद्यते इत्याह भावस्येति । अन्यथेति । यदि सुखं देहिभोग्यमेवेति न नियम इत्यर्थः । न चात्रेति । नित्यसुखाभिव्यक्तौ प्रमाणं नास्तीत्यर्थः । जीवन्मुक्तिद । न्यायलीलावतीप्रकाशः . भावस्येति । न ह्यात्ममनोयोगस्तद्धेतुः अष्टादिनिरपेक्षस्य तस्या- जनकत्वात् | विषयमात्रापेक्षणे तु संसारितादशायामपि तदभित्र्य- तिप्रसक्किंः । न च योगजो धर्मः सहकारी, तस्योत्पन्नभावत्वेन ना. शित्वे अपवर्गनिवृत्यापत्तेः । न च तस्यानन्तत्वादभिव्यक्तिप्रवाहो- व्यनन्तः, शरीरं विना तदनुत्पत्तेः, तस्य सुखाभिव्यक्तिहेतुत्वे माना- न्यायलीलावतीप्रकाश विवृतिः घटस्य कृतिसाध्यत्वे पटस्येध्यमाणत्वे घटविशिष्टपदार्थ प्रवर्सेते. त्याशयेनेदमुक्तम् । तस्यादृष्टादीति । मुक्तिकालेऽदृष्टशरीराधभावादि. त्यर्थः । अनन्तत्वं न ध्वंसाप्रतियोगित्वमुत्पनभावत्वादिति धाराक्र मेणानन्तत्वं वाच्यं, तश्च न सम्भवतीत्याह- शरीरमिति | तस्येति । यद्य (१) उत्पाद्यत इति मु० पु० पाठः ।
पृष्ठम्:न्यायलीलावती.djvu/६६१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति