न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकांशोद्भासिता ५८७ , विरोधात् । असन्चे दुःखाभावस्य स्वतो निर्वत्र्त्यत्वे अत्यन्ताभा- वत्वव्याकोपात् । अत्यन्तायावसम्बन्धः साध्य (१) इति चेन्न । उत्पश्याय सम्बन्ध (२) निवृत्ती मुक्तस्यापि संसारखापत्ते: । परा- वृत्तिदुःखात्यन्ताभावस्य स्वत: मिद्धत्वात् मुमुक्षुसमवेतदु खात्यन्ताभावस्य च (३) प्राक प्रध्वंसयोज्यतरत्रान्तर्भावात् । येषां चात्यन्ताभावो दुःखानां तेषामध्यक्षानुमानागमप्रभवस्मृत्यगोच राणामभावनिरूपकतानुपपत्तिश्च | यावदनागत दुःखप्रागमाबा- नुवृत्तिः क्रियत इति चेन्न । प्रागभावस्वभावो वा दुःखनिवृत्तिः, तस्यानागत कतिपय समयसम्बन्धो वा, यावदनागत समयसम्बन्धो वा ? नायः । अनादित्वात् । न द्वितीयः | दुःखस्य पुनरुत्पत्ति- प्रसङ्गात् । न तृतीयः । प्रागभावत्वविरोधात् । विनाशिनश्चान- न्तकालसम्बन्धित्व विरोधात् । अविनाशिनः स्वतः सिद्धत्वा • न्यायलीलावतीकण्ठाभरणम् द्धत्वादित्यर्थः । प्राक्प्रध्वंसयोरिति । अत्यन्ताभावस्य प्रतियोगिवैयधि- करण्यनियमादित्यर्थः । अध्यक्षानुमानागमप्रभवा या स्मृतिस्तदगोच- राणामित्यर्थः । स्मृतप्रतियोगिकस्यैवाभावस्य निरूपणादिति भावः । प्रागभावस्वभाव इति । प्रागभाव एवेत्यर्थः । अनागतेति । अनागतकतिप यसमयसम्बन्ध इत्यर्थः । अनादित्वादिति । तथाचानुवृत्तिः क्रियत इति विरोध इत्यर्थः । दुःखस्येति । अनागत कतिपयानन्तरदुःखस्य पुनरापत्ते रित्यर्थः । प्रागभावत्वेति । प्रागभावस्य प्रतियोगिजनकत्वनियमादित्य- र्थः । ननु प्रागभावः प्रतियोगिनमजनयित्वैव नश्यति ततः कथं दुः- खस्य पुनरापत्तिरित्यत आह विनाशिन इति । अविनाशिन इति । तथा न्यायलीलावतीप्रकाशः नाशनियमादिति भावः । प्राक्प्रध्वंसयोरिति । अत्यन्ताभावस्य प्रतियो गिलादेश्याभावादित्यर्थः । प्रागभावत्वेति । तस्य प्रतियोगिजनकत्वनिय (१) साध्यते इति मु० पु० पाठः । (२) सम्बन्ध्यनि-मु०० पाठः । (३) चकारो नास्ति मा० पुस्तके |
पृष्ठम्:न्यायलीलावती.djvu/६६४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति