पृष्ठम्:न्यायलीलावती.djvu/६६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती दिति । अत्रोच्यते । क्रमेण दुःखोत्पादो हि संपारित्वम् । यदा न्यायलीलावतीकण्ठामरणम् चानादित्वमपि वाच्यमेवेति स्वतःसिद्धत्वादपुरुषार्थत्वमित्यर्थः । युगपदनेक दुःखानुत्पादावस्थाया जीवन्मुक्तित्वदर्शनार्थ संसा रितो वैलक्षण्यं प्रतिपादयितुं संसारमाह कमेणेति | कायव्यूहादीत्या. दिपदात् पण्डानेकमनःसञ्चय उक्तः । कारणाभावात् - सवासनमि थ्याज्ञानाभावात् । रागद्वेषाभिनिवेशा: क्लेशाः, क्लेशहानानन्तरं न ध. मधर्माबुत्पद्येते, दोषतुषावनद्धा हि कर्मतण्डुलाः स्वफलारम्भकाः, त थाच समानाधिकरणयुगपदुत्पन्नानक दुःखध्वंसो मुक्तिरित्यर्थः । न चायमयत्नसिद्धः, बहूनां दुःखाना मेकदोत्पादस्य कायव्यूहसाध्यत्वा त्, कायव्यूहस्य च श्रवणमनननिदिध्यासनसाक्षात्कारजनकप्रय नसाध्यत्वात्। नन्वेतान्युत्पन्नानि स्वयमेव नश्यन्तीति चेत्, तेषामु त्पादस्यैव पुरुष प्रयत्वाधीनत्वात् । तर्हि तादृशदुःखध्वं सार्थ दुःखमप्यु न्यायलीलावतीप्रकाशः मादित्यर्थः । कमेणेति । मोक्षविरोधित्वप्रदर्शनार्थम् । संसार निर्वचनं यदा विति । एतेनैकात्मवृत्येक कालीना नेक दुःखध्वंसो मोक्ष इत्युक्तम् । दुःखान्तरध्वंसस्यायत्नसाध्यत्वेपि तादृशदुःखध्वंसस्य मिथ्याज्ञान ध्वंसद्वारा पुरुषप्रयत्नाधीनतत्त्वज्ञानसाध्यत्वात् । न च समानाधि- करणानेकदुःखानां युगपदुत्पत्तों तज्ज्ञानादेव तद्धंसस्तदनुत्पत्तौ तत्त्वज्ञानादपि न स्यादिति वाच्यम् । प्रतियोगिवन्तज्ज्ञानस्यापि तद्धेतुत्वात् । अत एव मुकात्मनः स ध्वंसो नास्मदादीनाम् | तादृश दुःखाभावादेव न तस्य ध्वंसः तादृशदुःखोत्पचावपि तत्त्वज्ञानस्य हेतुत्वात् । नन्वेवं ध्वंसार्थ दुःखसुपादेयं स्यात् तदनुत्पाद्यध्वंसस्यो त्पादयितुमशक्यत्वात् | सत्यम् । पुरुषार्थहेतुत्वेन दुःख तत्साधन योर- प्युपादानदर्शनात दाहछेद। दैभिर्दुर्नाम (१) चिकित्सावत् । न चानाग- न्यायलीलावतीप्रकाश विवृतिः तस्मात्सिद्धिरसंभविनीत्यन्यथा व्याचष्टे अयत्नेति । एतेनैकात्मवृत्तीति । नच कायव्यूहदशायामनेकदुःखोत्पादे तादृशोध्वंलोऽस्तीत्यतिव्या. तिरिति वाच्यम् । दुःखप्रागभावासमानकालत्वस्य ध्वंसविशेषण (१) 'दुर्भामा दीर्घकोशि के 'त्यमराही घोण्डकोशाख्यो बोध्यः ।