पृष्ठम्:न्यायलीलावती.djvu/६६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ५९१ दुःखपरिहारवन्मुमुक्षु समवेतदुःखमात्रस्य सम्भावनोपनीतत्वात् । असति योगाभ्यासेऽवश्यं दुरितप्रवाहस्यानागतसमयवर्ति. दुःखोत्पादकत्वात् । सर्वत्र चात्यन्ताभावनिरूपणे सामान्यतोऽव गतस्य विशेषतः समारोपितज्ञानविषयस्य प्रतियोगित्वदर्शनात | विशेषतस्तु निश्चयापेक्षया अत्यन्ताभावनिरूपणविरोधित्वात् । शशे विषाणं तदीयमन्यदीयं वा नास्तीति दूषणस्य सुवचत्वात् । प्रागभावस्थास ध्यत्वेऽपि विनाशहेतुसभिधौ विनाशोपलम्भा- " न्यायलीलावतीकण्ठाभरणम् परीहारार्थमपि प्रेक्षावतां प्रवृत्तिदर्शनात् । सम्भावनाहेतुमाह अस तीति ।। सामान्यावच्छिन्न प्रतियोगिकात्यन्ताभावनिरूपणमाघकृत्याह. सर्वत्र चेति । विशेषत इति । अनागत स्वात्मवृत्तिदुःखत्वेनेत्यर्थः । तदीयमिति । तदीयस्य प्रमितत्वाश्न निषेधोऽन्यदीयस्य चाप्रसिद्धत्वादित्यर्थः । का. रणविघटनमुखेन प्रागभावस्यापि साध्यत्वमतो दुःखप्रागभाव एव मुक्तिरित्याह प्रागभावस्येति । दुःखसाधननाशे सत्याग्रमसमये प्राग- न्यायलीलावतीप्रकाशः रनिश्चये सम्भावनोपनीतदुःखस्यैव परिहारस्तथा त्रापीत्यर्थः । विशे. षतस्त्विति । अनागततदात्मवृत्तिदुःखत्वेनेत्यर्थः । तदीयमिति । तदीयस्य बाधितत्वान्न निषेधः, अन्यदीयस्य चाप्रसक्तत्वादित्यर्थः । प्रागभाव स्य मुक्तित्वं ब्युत्पादयति प्रागभावस्येति । प्रागभावस्यानादित्वेऽपि प्रति योगिजनका धर्मविघटनद्वारा प्रागभावोऽपि कृतिसाध्यः दुःखकारण- न्यायलीलावतीप्रकाशविवृतिः बाधितत्वादिति । ननु प्रसकिरारोपः, स चान्यदीयस्यैव न तृतीयस्य तस्यारोपासम्भवासम्भवाच्च, प्रकृते च स्वपरवृत्ते दुःखमात्रस्याप्रामा. णिकत्वान्न सम्भावनोपनीतत्वम्, स्वीयस्य चात्यन्ताभावस्य विरोधः परकीयस्य चात्यन्ताभावः स्वतः सिद्ध इति चेत् । सत्यम । प्रथम कल्प एव निर्भरत्वम् । प्रागभावोऽपि कृतिसाध्य इति यद्यपि प्रागभा. वसरखे दुःखोत्पत्तिरावश्यकी, तदसत्वे च कस्य साध्यता, अत्य न्ताभावरूपतायां च प्रतियोगिकारणविनाशद्वाराप्यसाध्यत्वम्, तथा- व्यत्यन्ताभावप्रागभावयोर्नाज्ञानिको भेदः, किन्तु फलानुपधानोपधा.