पृष्ठम्:न्यायलीलावती.djvu/६६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९२ न्यायलालावेती त् । अविनाशित्वसमडिया नाशक हेतु निवृत्तये प्रवर्तन्ते, यथा प्रायश्चित्तविधौ दुःखाभावनाशक दुरितसम्पत्तौ दुरित निवृत्तये । न्यायलीलावतकिण्ठाभरणम् , भावस्वरूपमस्ति तेन विना नास्तीति घटादिसाध्यवत्तस्यापि सा ध्यत्वादित्यर्थः। यथा प्रायश्चित्तति । दुःखहेतु दुरितध्वंस द्वारा दुःखप्राग- भावस्यैव साध्यत्वात् तथाच तत्रापि प्रागभावपरिपालनं पुरुषार्थे मोक्षेपि तथैवेति भावः । अत एव प्रायश्चित्तस्थले तन्नाश्यदुरितजन्य दुःखप्रागभावसत्वे तेन दुःखमवश्यं जननीयम् यश्चित्तेन दुरितनाशस्याप्यानर्थक्यमित्युभयथापि लमित्यपास्तम् । शंकितानिष्टपरिहारार्थ लौकिकपरीक्षक प्रवृत्तिदर्श नात् । किंच महापातके सति कर्मान्तरे ममानधिकार इत्यधिकारस म्पादनार्थ महापात किनः प्रवृत्तिः, सति च पापे यागदानादिना ज नितमपि सुकृतं तावन्न फलजनकं यावन्न तत्पापभोगे इति तदर्थ पापान्तरनाशाय प्रायश्चित्तमिति न प्रागभावसदसत्वविकल्पावस तदसत्वे च प्रा. प्रायश्चित्तमफ न्यायलीलाबतीप्रकाशः १ समवधानदशायां कृतौ सत्यां दुःखसाधननाशे सत्यग्रिमसमये प्रा. गभावस्वरूपमस्ति तेन विना नास्तीत्यन्वयव्यतिरेकयोः सत्वात्, घटेsपि कृतौ सत्यामग्रिमक्षणे तत्सत्वं तेन विना नेत्येव कृतिसा ध्यत्वं, नतु प्रागसतोऽग्रिमक्षणे सत्वं गौरवादित्यर्थः । यथा प्रायश्चित्ते- ति । यथा प्रायश्चित्ते दुःखं मे माभूदित्युद्दिश्य प्रवर्त्तते दुःखानुत्पादः पुरुषार्थ: प्रतियोगिजनका धर्मनाशमुखेनेत्यर्थः । ननु प्रायश्चित्तनाश्य. पापजन्यदुःखस्य प्रागभावो यद्यस्ति तदा दुःखमावश्यकं तस्य प्रति योगिजनकत्वनियमात्, नास्ति चेत्तर्हि तदभावादेव दुःखानुत्पाद इत्यु भयथापि प्रायश्चित्तम फलम् तस्माद्दुःखसाधनध्वंसमुखेन प्रागभा. वस्यापि साध्यतेति तत्रैव कृति साध्यत्वपर्यवसानात् दुःख साधनध्वंस एव पुरुषार्थो न तु दुःखानुत्पादः । न च तथापि प्रागभावस्थासत्त्वे तदभावात् पापं न दुःखसाधनमिति न तन्नाशार्थी प्रवर्तेतेति वाच्यम्। प्रागभावस्यासत्त्वेऽपि दुःखलाधनजातीयनाशस्य पुरुषार्थत्वात् । न्यायलीलावतीप्रकाशविवृतिः नाभ्यामिति कारणविनाशेनैवाविनाशित्वं पर्यवस्थतीति न साध्य ,