पृष्ठम्:न्यायलीलावती.djvu/६७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्यायलीलावती तीति पूर्वपक्षतुल्यतापत्तेच इयमेव हि प्रागभावानुवृत्तिरिति मावादुकप्रवादः । न चास्य समायव्यय फलत्वेनापुरुषार्थत्वं, दुःख- स्य प्राचुर्यात्सुखस्याल्पत्वात् । आनन्त्यात्मुखदुःखयोरिदमनुपप- नमिति चेत् । न । दिनमासवर्षावच्छेदेन दुःखप्राचुर्यनिश्चयेऽ. त्रापि तदनुमानात् । तदनाकलित सङ्ख्यात्वमेतयोरानन्त्यं, न तु न्यूनातिरेक भावाभावः, अन्यथा सुकृतदुष्कृतयोरानन्त्ये विशेषा भावाद पूर्वकर्माननुष्ठानप्रसङ्गे वैदिक विधिनिषेधवैयर्थ्यापत्तेः । जी- , न्यायलीलावतीकण्ठाभरणम् इयमेवेति । दुःखसाधननिवृत्तिमुखेन दुःखप्रागभावस्यैव साध्यत्वात् मीमांसकानां नैयायिकानां च प्रायश्चित्तस्थले प्रागभावानुवृत्तिरि यमेवेत्यर्थः । समायव्यय फलत्वादिति ( १ ) । दुःख साधनशरीरादिनाशे सुख. स्यापि हानादित्यर्थः । दुःखस्येति । दुःखदुर्दिनमध्ये केयं स्वसुखस्ये. ति कामेन वीतरागाणां तत्र प्रवृत्तिर्न स्यादित्यर्थः । इदमिति | दुःख- स्य भूयस्त्वं सुखस्य चाल्पत्वमित्यर्थः । दिनमासेति । कचिन्माले दुःखप्रवाहस्य भूयस्त्वं सुखम्य चाल्पत्वमनुभवसिद्ध मन्यत्रापि तद नुसारेणानुमेयमित्यर्थः । राजादीनां सुखित्वेऽपि गर्भवासादिदुःखप्रा. चुर्यात् ब्रह्मादीनान्तु सुखलेशोपि नास्तीति । तर्हि द्वयोरानन्त्यप्र वादः किन्निबन्धन इत्यत आह तदनाकलितति । अन्यथेति । यद्यु भयोस्तुल्यवदानंत्यम्, तदा तद्बीजसुकृतदुः कृतयोरप्यानन्त्य मेवेति न्यायलीलावतप्रिकाशः र्थः । दिनमासेति । यद्यध्येत नैक पुरुषापेक्षया राजादौ स्वर्गिणि च वैंपरी. त्यदर्शनाच सामान्यतः भूयस्त्वं निरूपयितुमशक्यम्, तथापि धर्माध मौभयावरुद्धशरीरे दुःखानि भूयांसि न सुखानीति, राजादावपि गर्भ वासादिभूयोदुःखदशनात् । एवंसति सुखदुःखयोरानन्त्यव्यवहारं समर्थयति तदनाकलितेति । विधिनिषेधेति । विहित कर्मणि प्रवृत्तस्य सुक्क तवद्दुः कृतस्यावश्यंभावात्, अन्यथाऽन्यूनानतिरिक्तरूपानन्त्यानुपप न्यायलीलावतीप्रकाशविवृतिः सम्भवादिति दिक् । गर्भवासादीति | 'गर्भवासस्थलेऽधिक' इति स्मृते. (१) एतन्मतेनात्र मूले पंचम्यन्त एव पाठो बोध्यः ।