पृष्ठम्:न्यायलीलावती.djvu/६७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती विषमविपाकसमयतया कर्मणां युगपदुपभोगविरोधः, तदनुकू- लसहकारिसाकल्यस्यैकदोत्पादनादेव समानविपाकसमयतोप- पत्तेः । भवति चात्र स्मृति: “नामुक्तं क्षीयते कर्म” इति, श्रुति श्र "तावदेवास्थ चिरम्” इति । न चात्र “ज्ञानाग्निः सर्वक र्माणि" इति श्रुतिस्मृतिविरोधः भस्मसात्करणेन विनश्वरताया न्यायलीलावतीकण्ठाभरणम् वसन्ताद्यवच्छेदेन भोग्यत्वं काश्मीरकार्नाटावच्छेदेन वा भोग्यत्वं षष्ठिवर्षाद्यवच्छेदेन वा भोग्यत्वं सर्वे योगर्द्धिप्रमाबादेवोत्पन्नम्, तदु. तं- 'नहि योगर्धिप्रभावाढतेऽगस्त्यः समुद्रं पिबति, स इव दण्ड. कारण्यं व्रजतीति'। समयावच्छेदेपि तावतीनां सुखवृत्तीनां फलत्वं ताश्च कायव्यूहादेव संभवन्तीति भावः । तावदेवास्येति । अस्य- न्यायलीलावतीप्रकाशः आह - न च जीवत इति । न च विषमेति । विषमविपाकसमयत्वं यदि शरदूवसन्तादिसाहित्यं, यदि वा बाल्य यौवनादिसाहित्यं, तदोभयमपि योगर्द्धिप्रभावादेवोपपन्नम्, अथ षष्ठिवर्षादिभोग्यत्वं, तत्रापि ताव. द्भोग्यत्वमतन्त्रं, किन्तु तावत्यः सुखव्यक्तयस्तदैवोपभोक्ष्यन्ते इत्युक्त. मिति भावः । ननु 'नाभुक्तं क्षीयते कर्मे' त्यत्र प्रायश्चित्तस्मृतेः सङ्कोच. स्यISSवश्यकत्वेन शब्दबोधितनाशकानाइयकर्मपरत्वं लाघवात्, नतु तत्तदन्यकर्मपरत्वं गौरवात्, पापपुण्यक्षयहेतूनां बहुतरत्वात्, किच 'भिद्यते हृदयग्रन्थिश्छिद्यते कर्मबन्धनम्, श्रीयन्ते चास्य कर्माणि तस्मिन्डष्टे परात्मनी' ति प्रत्यक्ष श्रुतिविरोधेन स्मृतिर्न प्रमाणमित्यत आह - न चात्रेति । भस्मसात करणेनेति । कर्मणां भस्मीभावस्य बोधितत्वात् भस्मसात्पदस्य लाक्षणिकतया यथा वहेः परम्परया भस्म तथा ज्ञाना त्कर्मक्षय इत्यर्थः । ज्ञानस्य नाशकत्वं भोगद्वारापि सम्भवतीत्यबाधे सम्भवति न बाधकल्पनम्, अनन्यथासिद्धप्रायश्चित्तविधिना बाघ इति न्यायलीलावती प्रकाशविवृतिः रिति भावः । ज्ञानस्य नाशकत्वं भोगद्वारापीति | 'नाभुकं क्षीयते कर्म, 'नाग्निः सर्वकर्माणि' इत्युभयोरपि प्रामाण्यार्थ प्रारब्धव्यापारक- मप्रारब्धव्यापार कर्मपरभुभयत्र यथासंक्यं कर्मपदमिति वयम् ।