पृष्ठम्:न्यायलीलावती.djvu/६७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती महाप्रलयावस्थायामाकाशवत् । न च क्रमेण सर्वमुक्तिः । के पाश्चिदात्मनां संसायकस्वभावत्वात् । न चैवं सति तत्व- शङ्कायां (१) सर्वेषां मोक्षाननुष्ठानप्रसङ्गः, शमदमभोगानभि- ध्वङ्गादि चिह्वेन श्रुतिसिद्धेन संदेहनिवृत्तेः । इति मुक्तिः ॥ न्यायलीलावतीकण्टाभरणम् वृत्तिविशेषगुणासमानकालोत्पत्तिकस्ववृत्तिविशेषगुणध्वंसवान् वि. भुत्वे सति कार्याविशेषगुणत्वात् गगनवत् | तेनैककालीनेति विशे षणे दृष्टान्तासिद्धिः क्रमविवक्षायां च इदानीमपि सिद्धसाधनादि- ति देश्यमपास्तम् । महाप्रलयेति सम्प्रदायमते दृष्टान्तता | तत्वशंक- येति । यद्यहमेवोखवात्मा स्यामिति शङ्कयेत्यर्थः ॥ इति मुक्तिः । न्यायलीलाबतीप्रकाशः विभुत्वे सति कार्यविशेषगुणवत्वात् आकाशादिवदिति विवक्षित त्वात् | "आत्मा वा अरे श्रोतव्य" इत्याद्युपक्रम्य, "दुःखेनात्यन्तं वि. मुक्तश्चरतीति" श्रुतिरत्र मानम् । ननु यद्यहमेवोखरात्मा स्थामिति शङ्कया न मोक्षार्थी कश्चिद्ब्रह्मचर्यादिदुःखमनुभवेदित्यत आह - न चैवमिति । न च शमदमादिकार्येऽपि प्रत्यात्मत्वेनैव स्वरूपयोग्यतेति वाच्यम् | आत्मत्वं न विमुक्तात्ममात्रवृत्ति जातित्वात् घटत्वादिव न्यायलीलावतीप्रकाशविवृतिः धावनमपि तदर्थमेव | परवृत्चितुणध्वंसस्य सामान्यगुणध्वंसस्यात्य- न्ताभावस्य चामुक्तित्वात् विभुत्वे सतीति । स्वनाशनाश्य रूपादिमति ईश्व रे कालादौ व्यभिचार इति विशेषणानि । न चैतन्मते स्वरूपयो ग्यात्मनि व्यभिचारः, तदन्यत्वेनापि विशेषणात् । न च वर्तमानाष्य चिरमनुभूयत इति मते बाधः, चरम मोगध्वंस मादायैव साध्यसत्वात् । यदि च मुक्के: स्वरूपलाभाय विशेषपदं दुख परम्, तदा तदन्यत्वेना. प्याद्यविशेषगुणाविशेषणम् । तदनभ्युगन्तुमतेनैवेदमित्यपि बदन्ति । आकाशादीति दृष्टान्ते क्वचित्पाठः । तत्रादिपदं व्यतिरेकडष्टान्तसंग्रहा- येति ध्येयम् । आत्मत्वमिति । नन्वीश्वरात्मवृत्तित्वेनार्थान्तरं तस्य दुः खध्वंसाभावेनाविमुकत्वादिति चेत् । अत्र संसार्यात्मत्वमेष पक्षः, सु. स्वसमवायिकारणतावच्छेदकतया तज्जातिसिद्धेरिति केचित् । तद्- ( १ ) शंकया-मा० पु० पाठः ।