पृष्ठम्:न्यायलीलावती.djvu/६८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०२ न्यायलीलावती स्यैव भङ्गात् । तथा च प्रतिज्ञार्थ एव पूर्वमपेक्षित इति प्रतिपाद्यः, अन्यथा निग्रहात् । न च गङ्गायां घोषः पीनो देवदत्तो दिवा न मुझे इत्यादिवाक्यवत् झटित्यप्रतीतावपि न दोष इति वाच्यम् । वादिन: संदिग्धाप्तत्वात् अन्यथा विपरीतान्वयदृष्टान्ताभा- , न्यायलीलावतीकण्ठाभरणम् र्थः । तथाचानपेक्षिताभिधानेनानवधेयवचनत्वापत्तेरिति भावः | प्रतिज्ञार्थ एवेति । उद्देश्यानुमित्यन्यूनानतिरिक्तविषयकशाब्दज्ञानाजन. कन्यायावयवः प्रतिज्ञा तदर्थ एव पूर्वमपेक्षित इत्यर्थः । अन्यथेति | प्रतिज्ञाइन भिघानेऽप्रातकालनिग्रहापत्तेरित्यर्थ: । ननु लक्षणया आ. क्षेपेण वा हेत्व भिधानेनैव प्रतिज्ञार्थोपस्थितौ किं तेनेत्यत आह नचे. ति । वादिन इति । अनाप्तवाक्ये तदुभयानन्तरभावात् । अन्यथा वादी क्वापि न निगृह्येतेत्यर्थः । अन्यथति । यो वह्निमान्धूमादित्यादावपि न्यायलीलावतीप्रकाशः 1 न्यथानुपपत्या साध्यविशेषे तदुपपादके लक्षणा स्यादित्यत आह नचेति । झटितीति । मुख्यवृत्या प्रतिज्ञार्थाप्रतीतावित्यर्थः । ननु विप्र. तिपत्तित एव पक्षपरिग्रहे हेत्वभिधानमेवोचितम् | मैवम् | तस्याः प्रतिवादिविप्रतिपत्या समयबन्धेन चान्तरितत्वात, परविप्रतिपत्ति समयबन्धं च विना स्थापनाया अभावात विप्रतिपत्तिवाक्यस्य पक्षपरिग्रहेण पर्यवसिततया निराकाङ्क्षवाद | आवृत्तौ तु सैव प्रति ज्ञा, तस्मात्ताध्याभिधानं विना न हेतोराकाङ्क्षा, नवान्वयबोधजनक. त्वमिति प्रतिज्ञा साधनाङ्गम् | तल्लक्षणं च लिङ्गपरामर्षप्रयोजकवा. क्यार्थधीकारणत्वे सति उद्देश्यानुमित्यन्यूनानतिरिक्तविषयकशा न्यायलीलावतीप्रकाशविवृतिः ध्यानुपस्थापनादित्यपि द्रष्टव्यम् । लिङ्गपरामर्षेति । उदासीनप्रतिज्ञास मानाकारवाक्यातिव्यातिवारणाय सत्यन्तं न्यायप्रविष्टवाक्यपरम् | अवयवान्तरवारणाय विशेष्यपदम् । तत्रापि वह्निमानित्युदाहरणावय बेऽतिव्याप्तिरित्यन्यूनपदम् । शब्दत्वेनैव यत्र शब्दे नित्यत्वानुमानं तत्रो. पनयेऽतिव्याप्तिरित्यनतिरिक्तपदम्। न च तत्रान्वयव्याप्तिस्वीकारे व्या- तिग्रहकाले सिद्धसाधनं, व्यतिरेकव्याप्तौ तु न पक्षतावच्छेदकसाध्य-