पृष्ठम्:न्यायलीलावती.djvu/६८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-सर्विवृतिप्रकाशोद्भासिता ६०५ निगमनमपत्यास्ताम् इति पश्चावयवाः | न्यायलीलावतीकण्ठाभरणम् कशाब्दज्ञानजनकन्यायावयवत्वं (निगमनत्वम्) | केचित्तु प्रमा सा. मग्रीबलसंपादितेति मध्यस्थावगमविषयीभवितव्यमिति वादिनोः समयबन्धः, स च द्यवयवादिप्रयोगेणामपि सम्पद्यत एव, अन्यथा नियमानिर्वाहे बौद्धादयोऽनिगृहीताः स्युस्तथाच शास्त्रे यथा सूत्र. कारेण प्रयोगोऽभ्युपगतस्तथा तच्छास्त्रानुवर्तिना कथायां वक्तव्यो, अन्यथा न्यूनाधिक निग्रहापत्तेरिति वदन्ति | व्यायलीलावती प्रकाशः एवेति । यद्यपि व्याप्तपक्षधर्मलिङ्गप्रतिपादनमवयवचतुष्टयेन जनितं वि. परीतशङ्कानिवृत्तिरपि लिङ्गपरामर्षाजाता, अन्यथा निगमनेऽपि श कापत्तेः, नहि तद्विशेषदर्शन तामनादत्यैव तनिवर्त्तकम्, तथापि बा. धसत्प्रतिपक्षत्वाभावबोधफलं निगमनम् तच्चावयवान्तरान जात म् । अथ बाधसत्प्रतिपक्षत्वाभावः स्वरूप सन्नवानुमिति हेतुर्न ज्ञातः, त स्मिन्सति तज्ज्ञानवैधुर्येणानुमित्यनुत्पादादर्शनादिति किमर्थं तदभावो बोधनीयः । तत्र बाधसत्प्रतिपक्षयोर्हेत्वासा सत्वेना नुमिति प्रतिबन्ध कत्वे सति यदवगमे यन्न भवति तत्तदद्भावज्ञानसाध्यं यथोपाध्यमा- वज्ञानसाध्यानुमितिरिति व्याप्तेर्बाधाद्यमावस्यापि बोधनीयत्वात् । निगमनलक्षणं तु अनुमितिहेतुलिङ्गपरामर्षप्रयोजक शाब्दज्ञानकार• णव्यातपक्षधर्मताज्ञान प्रयुक्त साध्यज्ञानजनकवाक्यत्वम् || 9 न्यायलीलावतीप्रकाशविवृतिः मित्यर्थोऽतो न निगमनैकदेशातिव्याप्तिः । यदवगम इति । यदि चेयं व्याप्तिरप्रयोजकतया नाङ्गीक्रियते स्वरूपलन्नेव बाधाभावः कारणं तदा बाधाभावसम्पादनायैवाबाधितत्वं बोध्यत इति यदद्वगम इत्या दिप्रयोक्तुरमिप्रायकथनं, तथाच यदवगमे सति यन्न भवति तत्तद्- भावावगमे भवत्येवेत्यभिप्रायो निगमयतीति भावः । अनुमितिहोत्वति । उदासीनातिव्याप्तिवारणाय कारणेऽत्यन्तं ज्ञानविशेषणम् | तस्य न्या. यजन्यज्ञान कारणेत्यर्थः | ज्ञानपदं ज्ञानज्ञानपरम् | निगमनेऽपि प्रति बायामिव साध्यपदे ज्ञानलक्षणा स्वीकारात् ।