पृष्ठम्:न्यायलीलावती.djvu/६८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यायलीलावती तदाभानास्तु चत्वारः । असिद्धविरुद्धसव्यभिचारानध्यवसि ताः। बाघमतिरोधावपि स्नइति चेत् । न । उभयो (१) ब्योंप्तिग्रह- पक्षधर्मतापहारेणैवानुमानदूषकत्वात् सिद्धसाधनवत्, अन्यथा PERERENDEL न्यायलीलावतीकण्ठाभरणम् तदाभासाइति । पञ्चभिरवय वैर्यस्य सम्पत्तिर्गस्यते तदाभाला इत्यर्थः। अनुमितिप्रतिबन्धकतावच्छेदक रूपवत्वं हेत्वाभासत्वम् । विभागमा क्षिपति बाधेति । सन्देहलिषाधयिषयोः पक्षताघटक योरभावादाश्रया सिद्धिः, तत्र हेतुसत्त्वे व्यभिचारो, सत्प्रतिपक्षे तु व्याप्तिसन्देहात व्या न्यायलीलावताप्रकाशः तदाभासा इति योग्यतया तच्छन्देन हेतुपरामर्ष: । हेत्वासालत्वं तु ज्ञायमानत्वे सत्यनुमितिप्रतिबन्धकत्वन् । तयोरिति । बाधे पक्षत्वा भिमते साध्याभावप्रमायां साधनत्वाभिमतस्य वृत्तेर्व्याभिचारः, साध्य सन्देहाभावान्न पक्षत्वं, सत्प्रतिपक्षे त्वम्यतरत्र तत्सत्त्वेऽपि तत्प्रतीति नस्तीत्य सिद्ध एव तयोरन्तभाव इत्यर्थः । ननु व्याप्तिपक्षधर्मतान मित्यभावोपजीव्यत्वात्तौ पृथक् स्यातामित्यत आह अन्यथेति । सि. द्धसाधनस्यापि तदुपजीव्यत्वादित्यर्थः । ननूपजीव्यत्वेऽपि सिद्ध साधनं स्वतोऽदूषकं नहि साध्यज्ञानं साध्यज्ञानपरिपन्थि, साध्या न्यायलीलावतीप्रकाशविवृतिः ज्ञायमानत्वे सतीति । यद्यपि साक्षादनुमितिप्रतिबन्धकत्वे विवक्षि ते व्यभिचाराद्यव्यातिः, परम्परालाधारण्यविवक्षायां उपाधाव क्षणम् । तिव्याप्तिस्तथाप्यनुमितिपरामर्थान्यतरविरोधिघटितशरीरत्वमेव ल विरोधश्च कचित्परस्पराभावात्मकत्वं कचिदभाव व्याप्यत्वम् । अत एव च न सिद्धसाधनप्रसङ्गः । इदं च लक्षणं ज्ञायमानस्यैव हेत्वाभासत्वमिति मते, ग्रन्थकृन्मते त्व. नुमित्यसाधारणदोषत्वमेव लक्षणमसिद्ध्यादेरज्ञायमानस्यैव प्रति बन्धकत्वाद्वाघस्या साह्यत्वाचेति तदेवानेनोपलक्षित मित्यवधेयम् । मूले साध्याभावपरिच्छितिरूपत्वादित्युपलक्षणं, तच्चाप्यपरिच्छि. ( १ ) तयोरिति प्रकाशाभिमतः पाठः न० पु० बोध्यः ।