पृष्ठम्:न्यायलीलावती.djvu/६८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ६०७ तस्यापि दूषणान्तरतापत्तेः । ताप्यपरिच्छेदो न तस्य विरोधी स्वभावादिति तस्य परापेक्षित्वात्, बाधपतिरोधयोस्तु साध्या- भावपरिच्छित्तिरूपत्वादाभासान्तरस्वमिति चेत् । न । सर्वोपसं. हारप्रवृत्तवाद्याभ्यन्तरनियमस्यानुमानसहायत्वात् । तदेकदेश- न्यायलीलावतीकण्ठाभरणम् व्यत्वासिद्धिरित्यर्थः । ताइप्यपरिच्छेदः साध्यवत्तया धर्मिपरिच्छेदः सिद्धसाधनमिति यावत् | तस्य न साध्यसिद्धिविरोधित्वं धाराबहना. दिदर्शनात् | साध्याभावपरिच्छित्तिस्तु साध्यसिद्धिपरिपन्थिनीति तयोः स्वातंत्र्येणैव दोषत्वमित्यर्थः । बाह्यः सपक्षः, आभ्यन्तरं पक्षः, न्याय लीलावतप्रिकाशः भावप्रमा तु स्वतो दृषिका तथा, सत्प्रतिपक्षोऽपि व्याप्त्यादिप्रमाप्र. तिबन्धकत्वेन तथेत्याह तादूप्येति । साध्यवन्तया धर्मिणः परिच्छेदः सिद्धसाधनमित्यर्थः । सर्वेति । बाह्याभ्यन्तरं सपक्षपक्षसाधारण्येने. त्यर्थः । वही कृतकत्वदर्शनात् पूर्व पक्षधर्मताज्ञानाभावादेव नानुमि. तिस्तदर्शने च साध्याभाववति हेतुदर्शनादनैकान्तिकत्वमेव दूषणम् । न च वह्नौ प्रत्यक्षेण साध्यामावग्रहात्पूर्व हेतुदर्शने सत्यनैकान्तिक- त्वज्ञानासा वादनुमितिसामग्री निःप्रत्यू हैवेति वाच्यम् । विशेषादर्श. नदशायामुत्पन्नस्यापि व्याप्तिज्ञानस्य वहौ साध्याभावप्रमया बाधे नानुमिति सामग्री वैकल्ये नानैकान्तिकस्यैव दूषणत्वादिति भावः । ननु पक्षत्वाभिमतादन्यत्र साध्याभाववति हेतुस रखेना नै कान्तिकमत्र न्यायलीलावतीप्रकाशविवृतिः तिरूपत्वादित्यपि द्रष्टव्यम् । व्यायादिप्रमेति । अन्यतरत्वेन व्याति पक्षधर्मान्यतरभङ्गनिर्णयेऽसाधारणरूपेण सन्देहादिति भावः । पौन रुक्त्यभिया सर्वोपसंहारप्रवृत्तत्वमेव परिच्छिद्याह बाह्याभ्यन्तरमिति । य द्यपि बाह्याभ्यन्तरै सपक्षपक्षौ न तदुभयसाधारण्येनेति फक्किका युज्यते, तथापि पर्यवसितार्थोत्कीर्त्तनमिदम् । नच वह्नाविति । व्याप्तिपक्ष- धर्मताज्ञानोत्तरं यत्र पक्षे साध्याभावग्रहस्तत्र बाधस्य प्रतिबन्धक त्वमिति शङ्कार्थः । उत्पन्नस्यापि व्यातिज्ञानस्याप्रामाण्यस्य शङ्का तत्र बाधात्मक व्यभिचारज्ञानेनाघीयत इति तच्छङ्काशून्यपरामर्षाभावादेव