पृष्ठम्:न्यायलीलावती.djvu/६८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

wresteradi प्रवृत्तविपरीत परिच्छेदस्यैव वाधस्य सञ्यभिचारत्वात् । स च व्यभिचारो बहिरन्तवेति व्यभिचारदेहान्तर्भूतत्वात् । प्रतिरोधे च प्रतिरोध्यनियमग्राहकमत्यक्षदोषस्य सखे तस्यानुद्भावनात् | न्यायलीलावतीकण्ठाभरणम् तथाच बाधे पक्षे एत्र व्यभिचारान हेत्वमासान्तरत्वम् । ननु नहि न पक्षे पक्षसमे वा व्यभिचार इत्यत आह सचेति । दोषे सति नेयं परिभा न्यायलीलावती प्रकाशः तु न तथेत्याशयेनाह स चेति । पक्षानिरिक्तत्वस्य गौरवकरत्वादित्य- र्थः । नच बाधोत्तरमनैकान्ति करवा पक्षधर्मत्वयोऽदूषकत्वादुपजीव्य- त्वाद्वाघः पृथक्, उपजीव्यत्वं हि न तावत्तमवगम्यैवावगमः, बाध. मनवगम्यापि शब्दादनुमानावा अनैकान्तिकत्वस्य सुग्रहत्वात् । व स्तुत एकत्र धर्मिणि हेतुसाध्याभावाविति समूहालम्बनैकैव प्रतीति र्हेतुसाध्याभावयोः सामानाधिकरण्योल्लेखिनी, अन्यथा साध्याभाव. प्रमायां यदि हेतोरज्ञानं तर्ह्यसिद्धिरेव स्यादित्ये कवित्तिवेद्यत्वं तयो रिति नोपजीव्यत्वम् । नापि बाधमुद्भाव्यैवोद्भावनम् असिद्धेः, नही. दमनैकान्तिकमित्युक्ते, कथमिति परानुयोग आवश्यको, येनावश्य कोद्भाव्यता स्यात्, तथात्वेप्युजीवक्रमेव दूषणमस्तु क्लृप्तत्वात, अ. तएवावश्योद्भाव्यत्वं तदिति परास्तम् । अथार्थान्तरोपनायकस्मृ न्यायलीलावतीप्रकाशविवृतिः तत्र नानुमितिरिति परीहारार्थः । शब्दादनुमानाद्वेति । एतच्च प्रत्यक्षरू पमेव ज्ञानं नोपजीव्यमिति प्रतिपादनाथ | ज्ञानान्तरसावारण्येनोप- जीव्यत्वनिगसायाह वस्तुत इति । नहीदमनैकान्तिकमिति। यद्यपि बाधोद्भा वनानन्तरमेव व्यभिचारोद्भावनमिति शङ्कायां व्यभिचारोद्भावनानन्त- रंन बाघोद्भावनमिति परिहारो व्यधिकरणस्तथाप्युद्भावयितुर्विम र्षशरीरमेतत् तथा च व्यभिचारे उद्भाविते कथमिति यदि परकथं तावश्यं तदा प्रथमं बाघ एवोद्भाव्यतामावश्यकत्वादित्यालोचयतां प्रथमं बाघोद्भावननियमः स्यान्न त्वेतदस्तीति नाशङ्कितो नियम इति भावः । यद्वा बाघोद्भावनपूर्वतानियतं न व्यभिचारोद्भावनमित्ये- वाशङ्काफक्किकार्थ इति यथा परिहारफक्किका । अत एवेति । पूर्वोत्तरसाधारण्येनेति शेषः । रत्नकोशकुन्मतमाशते अथेति । एत ,