पृष्ठम्:न्यायलीलावती.djvu/६८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती न्यायलीलावतीप्रकाशः थासति बाधस्य हेत्वाभासत्वव्याघातात्, अनुमित्यसाधारणदोष. स्यैव हेत्वाभासत्वात् । अथ पक्षाभिमते साध्याभावग्रहवत् साध्या- भावव्याप्यग्रहोऽपि दूषकः विरोधित्वाविशेषात्, एवञ्च साध्याभा- वसामानाधिकरण्यमनैकान्तिकत्वम्, लाध्याभावव्याप्यसामानाधि करण्यं च बाधः, साध्याभावव्याप्यं च वह्नित्वाद्येव | मैवम् | पक्ष- त्वाभिमते साध्याभावग्रहस्यैव दूषकत्वासिद्धौ तद्द्दष्टान्तत्वानुपप- तः, सिद्धौ वा तस्योक्तरूपबाधाऽनन्तर्भावे षष्ठहत्वाभासत्वापत्तेः । उक्तरूपश्च बाधः पक्षाभिमतांवषयकसाभ्याभावबुद्धौ सत्यामसत्यां वा ? आद्येऽनैकान्तिकमेव, साध्याभावसामानाधिकरण्यग्रहात् । अ न्त्ये लिङ्गत्वाभिमत साध्याभावव्याप्ययोर गृह्यमाणविशेषतया सत्प्रति पक्ष एच दूषणं, न बाधः । न च तुल्यबलत्वं तन्त्रम्, गमकताप्रयोज करूपसम्पत्तेरेव बलत्वेन तस्य द्वयोरपि ज्ञानत्वात् । प्रतिरोध्येति । प्रतिरोध्यं स्थापनानुमानं तस्य व्याप्तिग्राहकं यत्प्रमाणं तस्य प्रत्य. क्षेण द्वितीयानुमानमूलव्याप्तिग्राहकेन बाधः, तत्सत्त्वे तस्यानुद्भा वनात् - प्रतिरोधानुद्भावनात, अन्यथा हनिबलतया सत्प्रतिपक्ष. त्वानुपपत्तेरिस्यर्थः । ननु द्वितीयानुमानमूलव्याप्तिग्राहकं यत्प्रत्यक्ष तद्विरोधि प्रथमानुमानमूलव्याप्तिग्राहकं प्रत्यक्षान्त रमस्ति, (१)तथाच न्यायलीलावतीप्रकाशविवृतिः र्षस्य विषयतानियामकत्वं किन्तु व्याप्तिपक्षधर्मत योरिति नोपनीतस्य विषयत्वमिति सारम् | अनुमित्यलाधारणत्वादिति ध्वनितम् । व स्तुतः प्रत्यक्षे ग्राह्याभावप्रत्यक्षत्वेन प्रतिबन्धकता शब्दस्तु माना. न्तरं न भवत्येवेति ग्राह्याभावज्ञानत्वेनानुमितावेव प्रतिबन्धकत्वं वा. व्यं, तच्च न व्यभिचारसांकर्यादिति रहस्यम् । षष्ठेति | हेत्वाभास पञ्चत्ववादिन इति शेषः । सत्प्रतिपक्ष एवेति । त्वन्मत इति शेषः । ननु परस्परव्याप्तिग्राहकप्रामाण्यासिद्धिर्न स्वतो दूषिका विरोध्यविषय. त्वात्, न चान्यतरव्याप्त्यनिश्चय एव दोषस्तत्रापि ग्राहकप्रमाण. स्य सत्प्रतिपक्षतयोपजीव्यत्वादित्यरुचेराह तथात्वेरीति | दुषकत्वेऽपी- त्यर्थः । विरोधिसामग्रीत्वेन शब्दादिसाधारणेन प्रतिबन्धकत्वादि (१) अत्र तथात्वेपीति विवृतिकारसम्मतपाठो युक्तः |