पृष्ठम्:न्यायलीलावती.djvu/६९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्डामरण-लविवृतिप्रकाशोद्भासिता ६११ तस्याप्येतमिमग्राहकं विपक्षान्तरमस्तीति चेत् । न तस्यैव प्रतिबन्ध सिद्धिरूपस्वाद अलं उदुपजीविनाऽन्येनेति तयोर- सवात् ॥ लिङ्गत्वेनानिश्चितो हेतुरसिद्धः । स एवैकोऽस्तु, अन्येषा- न्यायलीलावतीकण्ठाभरणम् पक्षत्वमुद्भावयितुमुचितमिति भावः | तस्यापीति | प्रथमानुमानस्या. पीत्यर्थः । तस्यैवेति । परस्परविरुद्धप्रत्यक्षद्वयप्रतीघातस्यैवेत्यर्थः । प्रतिबन्धासिद्धिरूपत्वादिति । उभयत्र व्याप्तिसन्देहापादकतया तादूपयो पचारः अलमनेन प्रतिबन्धेनेति । तयोरिति । बाघप्रतिरोधयोरित्यर्थः । तथाच हेत्वाभासानां चतुडाव्याघात इति भावः । लिङ्गत्वेनेति । व्यातपक्षधर्मत्वेनेत्यर्थः । तथा च व्यासपक्षधर्मत्वा- न्यायलीलावतप्रिकाशः विरोधिप्रत्यक्ष योरेव सत्प्रतिपक्षत्वं दूषणमस्तु इत्यत आह तस्यापीति | तस्यापि द्वितीयानुमानस्यापि, एतन्नियमग्राहकं स्थापनानुमाननू. लव्याप्तिग्राहकं विपक्षान्तरं, प्रत्यक्षान्तरेण दूषणत्वरूपाभासत्वा. सिद्धेः तथाभूतस्यैव हेत्वाभासत्वादित्याह तस्यैवेति । वाद्युपम्य- स्तविरोधिप्रत्यक्षस्यैव, प्रतिबन्धासिद्धिरूपत्वात्-प्रतिबन्धासिद्धि. निरूपकत्वात् तदुपजीविना-असिध्युपजीविना, तयोर्बाधसत्प्रति. पक्षयोर्बाधादित्यर्थः । लिङ्गत्वेनेति । लिङ्गत्वेन व्यातिपक्षधर्मतावत्वेन, अनिश्चितोऽप्रमित इत्यर्थः । तेनाश्रयासिद्धिव्याप्यत्वासिद्धिस्वरूपासिद्धयः संगृहीताः । ननु प्रत्येक समुदायाभ्यामव्यापकम् | न च प्रत्येकाभावानुगतो व्या. तिपक्षधर्मताविशिष्टाभावः, विशिष्टाभावाचानेऽपि व्याप्त्याद्यन्यत. न्यायलीलावतीप्रकाशविवृतिः , ति भावः । प्रत्यक्षस्य न प्रतिबन्धासिद्धिरूपत्वमित्यत आह निरूपक त्वादिति । निष्पादकत्वादित्यर्थः । असिद्धसुपजीविनाऽसिद्धिनिष्पाद केन । तेनेति । व्याप्तिपक्षधर्मताप्रमितिविरहात्मकलक्षणेनेत्यर्थः । स्व. रूपासिद्धय इत्यन्तमुपलक्षणम्, मितिविरहोऽपि द्रष्टव्यः । अत्र शङ्कते ननु प्रत्येकेति । विशिष्टाभावशाने पीत्युपलक्षणं लक्ष्यताभिमतप्रमितिवि