पृष्ठम्:न्यायलीलावती.djvu/६९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती चेन्न, व्याप्यत्वानुपलम्मस्य तन्निवायकत्वेन विपरीतापत्तेः । नात्र योग्यानुपलम्भं विनाऽभावावगतिरिति चेत् । मैवम् । स्वार्थानुमाने यदेव स्फुरति तदेव दूषणमित्युपजीव्योपजीवक- मावाविचारात् । परार्थानुमाने तु व्यभिचारिणि न व्याप्त्यसि न्यीयलालीवताकण्ठाभरणम् उपलम्भस्य प्रतिबन्धस्तदभावो व्यभिचारधीलक्षणस्तस्मात् कार्य स्योपलम्भस्याभावोऽसिद्धिरिति चेदुपजीव्यं नषे, तन्न सम्भवति यतः प्रतिबन्धाभावस्यैव ग्रहः प्रतिबन्धानुपलम्भाधीनः, नहि योग्या. नुपलम्भमन्तरेणाभावग्रहे कारणान्तरमस्तीति व्यभिचार एवोप जीवकत्व सिद्धिरिति विपरीतापत्तिरित्यर्थः । परार्थानुमाने स्विति । पर्वतो धूमवान्वह्निमत्वादित्यत्र यद्वह्निमत्तट्टू. मवदित्युदाहरणावयवेन वादिना व्याप्ती दर्शितायां व्याप्यत्वासिद्धि. स्तावदाहस्योद्भावयितुं न शक्यते, व्याप्तिनिश्चये चानौपाधिकत्वम प्याततो निश्चितमेवातो यद्यपि व्यभिचारशङ्कापि नोदेतुमर्हति, त. न्यायलीलावतीप्रकाशः वस्यैव व्याप्यत्वेनोपजीव्यत्वं कार्याभावस्य च प्रतिबन्धानुपलम्भ स्यासिद्धिरूपस्योपजीव्यत्वमित्यर्थः । व्याप्यत्वानुपलम्भस्येति । व्याप्यत्वानुपलम्भस्य प्रतिबन्धाभावनि न्यायलीलावतीप्रकाशविकृतिः तेन पुनः शङ्का, कारणाभावादित्यादिना सिद्धान्तमन्द्य इति चे. न्मभ्यसे सिद्धान्तिन् तन्न तत्र हेतुर्व्याप्यत्वानुपलम्भस्येत्यादि इति योजना | द्वितीयपक्षे व्यभिचारिष्वित्यादिस्थितिरिति चेदित्यन्ते. नावान्तरशङ्का, नेत्यादि अभावावगतिरिति वेदित्यन्तेन तनिराकरणे प्रथमशङ्काया उपसंहार इत्येवं योज्यम् । प्रतिबन्धाभावस्यैवेति । यद्यध्ये. वं प्रतिबन्धाभावोपजीवकत्वेऽपि न व्यभिचारोपजीवकत्वं तथाध्य व्यभिचारस्यैव प्रतिबन्धकत्वमित्यभिप्रेत्येदम् । व्याप्यत्वेनेति । यद्य पि प्रतिबन्धभ्रमस्थले व्यभिचारस्तथाप्युपलम्भपदस्य प्रमाणत्वमभि प्रेत्येदम् । ननु व्यभिचारशङ्काया अप्युत्पाददर्शनेऽसम्भव एवेत्यतो मूले तदुपाध्यभावेनेति । तथासत्यतिपीडाऽतिनिर्बन्धः स्यादिति तत्प्र ,