पृष्ठम्:न्यायलीलावती.djvu/६९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोन्द्रासिता एवंसति सोपाधित्वमेव दूषणं स्यादिति चेन | तस्य स्वतोऽदु- पणत्वात् ताप्यपरिच्छेद देन व्याप्स्यसिद्ध्युपजीवनात् । 9 9 न्यायलीलावतीकण्ठाभरणम बन्धाभावरूपव्यभिचारशापकत्वेन योग्यानुपलब्धेरभावनिश्चायक. त्वादित्यर्थः । ननूपाधिस्फुरणे स एव दोषः स्यादित्याह एवमिति | तस्येति | साध्यव्यापकत्व साधनाव्यापकत्वज्ञान मन्यत्रातन्त्रमित्युपा वे परमुखानेरीक्षकरवं सिद्धसाधनवदित्यर्थः । निरपेक्षणीयमाद न्यायलीलावतीप्रकाशः सम्बन्धस्यैव! साधक तासाधकत्वात् नियमांशस्य व्यर्थत्वात्, अत एव साध्यवदन्यत्वव्याप्यत्वमित्यपास्तम्, व्याप्यत्वविवेचने व्यर्थत्वात् । मैवम् | साध्यव्यापकाभावप्रतियोगिनो विरुद्धत्वात् साध्याभावव्या. व्यश्चेद्धेतुरवश्यं हेत्वभावव्याप्यं साध्याभावाभावरूपं च साध्यम, ययो येथा व्याप्तिस्तदभावयोवैपरत्येिन व्याव्यव्यापकभावात् । न च ला. ध्यत्वभावयोव्र्व्याप्तिहे हेतोः साध्याभावव्याप्यत्वग्रहः कारणम्, दग्रहेऽपि तयोः सहचारदर्शनेन व्याप्तिग्रहसम्भवात् । यद्वा वृत्तिमत्वे सति साध्यवदवृत्तित्वं विरुद्धत्वम्, नहि वृत्तिमत्वे साध्यवदवृत्ति. त्वज्ञानं विना साध्याभाववामित्वज्ञानं भवतीति तस्योपजीव्यत्वम् । असत्व निर्वाहकत्वेन - प्रतिबन्धासत्त्वनिर्वाहकत्वेनेत्यर्थः । अनुमिति- व्यतिरेकनिर्वाहकत्वमित्यन्ये । ननु यधुपजीव्यत्वादनुपलम्भस्य पृथक् दुषणत्वं तदा यत्रोपाध्युपजविकं दूषणान्तरं तत्रोपाधिः पृथक् दूषणं स्यादित्याह एवंसतीति । नोपजोव्यमात्रं पृथक् दूषणं किन्तु स्वतो दूध- कं सत्, न चोपाधिस्तथा, न ह्यन्यस्य साध्यव्यापकत्वसाधनाव्या. पकत्वज्ञानअन्यस्य साध्यव्याप्यत्वे स्वतो दूषकम्, किन्तु व्यातिविघट नद्वारा, अतोन पृथगुपाधिर्दूषणमित्याह तस्येति । ताद्रूप्येति । सिद्ध· न्यायलीलावतीप्रकाशविकृतिः ₹ ज्ञानविरोधितयेव व्यभिचारोपाधीनामेवमेवान्यत्रापि यथासम्भवम नुगमश्चिन्त्यः । उपस्थित्यनियमेन व्यवस्थितविकल्पाभिप्रायेणाह यद्वे- ति । वृत्तिमत्व इत्यसंकीर्णस्थलकथनाय | प्रतिबन्धकतावच्छेदकं तु विशेष्यभागमात्रम् | अनुमितिव्यतिरेकेत्यादि प्रकृत्यर्थमात्रविवरणम् | ७८ न्या १ ·