पृष्ठम्:न्यायलीलावती.djvu/६९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावती व्याप्त्यनुलम्भस्य तु कारणाभावत्वेन स्वरूपदोषत्वात् । अत एव व्यभिचारसंदेहस्य विपक्षव्यावृत्यपरिच्छेदोपजीवित्वेन सं. दिग्धानैकान्तोऽपि न पृथक् दुषणम् । पक्षैकदेशहात्तरनध्यवासि . न्यायलीलावतीकण्टाभरणम् तेनेति । नन्वसिद्धिरपि कथं दोष इत्यत आह अनुपलम्भस्य विति । प्रति बन्धानुपलम्भस्येत्यर्थः । अतएवेति । कारणविरहोपजीविकत्वादेवेति, विपक्षव्यावृत्तिज्ञानमनुमितिकारणं सन्दिग्धानैकान्तिकं च तद्विघटन. द्वाराऽनुमितिप्रतिबन्धकमित्यर्थः । पक्षैकेति । सति सपक्षे सपक्षाड्या. न्यायलीलावतीप्रकाशः साधनं यथा पक्षताविघटनद्वारा दूषकं न स्वत इत्यर्थः । तेनोपाधि नेत्यर्थः । अतोऽसिद्धावन्तर्भाव इति भावः । कारणाभावत्वेनेति । अनु. मितिकारणव्याप्तिज्ञानाभावत्वेनेत्यर्थः । नन्वेवं सन्दिग्धानैकान्तिक मपि व्यभिचारात् पृथक् दूषणं स्यात, नहि तत्रानैकान्तिकमेव दू. षणं विपक्षवृत्तित्वेनानिश्चितत्त्वादित्यत आह अतएवेति । अनुमितिका रणविपक्षव्यावृत्तिनिश्चर्याविरहोपजीवकत्वादसिद्ध एव तस्यान्तर्भा व इत्यर्थः । पक्षैकेति । सर्वसपक्षविपक्षव्यावृत्त इत्यर्थः । अनैकान्ति कस्य संशयफलकहेत्वाभासत्वाद साधारणधर्मस्थानध्यवसायज्ञान जनकत्वादिति भावः । ननु सपक्षत्वं न साध्यवन्मात्रत्वं विपक्षावृ तेर्वृत्तिमतः साध्यवद्वृत्तित्वनियमात्, नापि पक्षान्यसाध्यवत्वं श. ब्दोऽनित्यः शब्दत्वादित्यत्र व्याप्तिग्रहदशायां सद्धेतावतिव्याप्तेः । मैवम् । सर्वनिश्चितसाध्यवद्विपक्षव्यावृत्तस्यासाधारणतयाऽनध्यव- सितत्वात्, शब्दत्वाइनित्यत्त्वव्याप्तिग्रहदशायां शब्दे साध्यनिश्चया न्यायलीलावतीप्रकाश विवृतिः . व्याप्तिज्ञानकारणाभावत्व भ्रमनिरासायाह अनुमितिकारणेति । तस्यान्त भव इति । इदं च समाधिसौकर्यात | वस्तुतः साध्यवदन्यत्वांशनि- श्रयीभूतसाध्यवदन्यवृत्तित्वज्ञानं तत्राप्यविकलमेवेति ध्येयम् । व्य तिरेके हेतोरतिव्याप्तिभयेन व्याचष्टे सर्वसपक्षेति । व्यभिचारिणोऽभेद- माशङ्ख्याह अनैकान्तिकस्येति । एतन्मते संशयानध्यवसाययोर्भेदादिति भावः । शब्दत्वानित्यत्वेति । व्यतिरेकव्याप्तिग्रहदशायां यद्यपि न सा.