पृष्ठम्:न्यायलीलावती.djvu/७००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठा भरण- सविवृतिप्रकाशोद्भालिता ६२१ परापेक्षायां ज्ञानत्वव्याघातः । अनधिकपरिच्छेदस्य गृहीतानु- भवसाधारण्यात् । कारणज्ञानप्रामाण्यापेक्षया यथार्थत्वस्यानु मितिसाधारण्यात् । स्वविषयज्ञ | नप्रामाण्यापेक्षत्वस्य शब्दसाधा- रण्यात् । अधिकपरिच्छेदे च प्रमाणत्वात्, अन्यथा तव्यवस्था- नुपपत्तेः | तत्तावच्छिन्नं हि स्मृतिरर्थमाकळयति, सा च यदि न्यायलीलावतीकण्ठाभरणम् स्यादित्यर्थः । ननु गृहीतमात्रगोचरत्वात्रेयं प्रतीतिरित्यत आह अनधिकेति । एवंसति धारावगाहिधियामपि प्रमितित्वं न स्यादित्य- र्थः । नन्वनुमितिः पूर्वानुभवस्य भिन्नविषयस्य प्रामाण्यमपेक्षते स्मृतिस्तु स्वसामानविषयकस्यैव स्वजनकानुभवस्येति वैषम्यमत आ स्वविषयेति । शाब्दज्ञानस्यापि समानविषयकस्यैव वक्तृज्ञान- स्य प्रामाण्यमपेक्षते इति तदपि प्रमा न स्यादित्यर्थः । स्मृतेः प्रमा त्वे युक्त्यन्तरमाह अधिकेति । अधिकं तत्ताभागः, एतदेव स्कुटय ति-तत्तेति । न्यायलीलावतोप्रकाशः नकानुभवापेक्षणान्न तथेत्यत आह इच्छादिवदिति । अनधिकेति । पूर्वानु भवविषयविषयकत्वेनाप्रमात्वे धारावाहिकज्ञानप्रामाण्यापेक्षणात्तथा. ऽनुमितौ च भिन्नविषयक तादृशज्ञानापेक्षणान्न तथेत्यत आह स्व विषयेति । शब्देऽपि स्वप्रयोगहेतुसंसर्गज्ञान प्रामाण्यापेक्षणादित्यर्थः । स्मृतेर्मानान्वरत्वे युक्त्यन्तरमाह अधिकेति । अन्यथेति । यदि स्मृति: प्रमा न स्यात्तदा तत्तावच्छेदस्तत्र न भासे तेत्यर्थः । तदेव व्युत्पादय ति तत्तावच्छिन्नमिति । स्मृतेः पूर्वानुभवमात्रविषय विषयकत्वेऽनुभवा. न्यायलीलावतीप्रकाशविवृतिः निश्चयात्मकत्वादित्येव तदर्थ इति भावः । ज्ञानजनकत्वेति । यदि चानु. व्यवसायजनकत्वेन तथात्वं तदा प्रामाणान्तरसाधारण्यमिति भावः। स्मृतेर्मानान्तरत्व इति । जनकीभूतमानविषयकसमानाधिकरणज्ञानप्रामा ण्याधीनसामान्यकत्वमप्रमितित्वव्यवहारप्रयोजकमिति पूर्वत्रारुच्ये ति शेषः । तत्तावच्छेदस्तत्रेति । यद्यप्यप्रमात्वेऽपि भानमविरुद्धमेव, तथा. पि तत्तावच्छेदोऽनुभवेन भासत एव स्मृतिश्च त्वम्मतेऽप्रमैवेति स