पृष्ठम्:न्यायलीलावती.djvu/७०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती नात् । न च तत्र तत्काळावच्छिन्नम् तदान मिसवापत्तेः । नापी दानीं तदबच्छेदमाकलयति, अनवभासात्तस्येदानींकालस्य पू र्वानुभवेन स्मरणायोगात्। मुनीनामव्यवहारादिति चेत् । न । वादिनं प्रति मुनित्वस्यैवासिद्धिरिति । तत्कथं द्वे एव प्रमाणे इति चेत | अत्रोच्यते । न ह्यत्र सत्यज्ञानत्वं सत्यानुभवत्वं वा प्रा- माण्यं साध्यम् यथाक्रमं सिद्धसाधनबाघयोः सत्वात् । नापि प्रमाणशब्दवाच्यत्वम्, अनीश्वरेच्छाप्रयुक्त प्रमाणशब्दाभिधेय. त्वे सिद्धसाधनात् । ईश्वरेच्छापरतन्त्रप्रमाणशब्दवाच्यत्वस्य तद्- भियुक्त पुरुषव्यवहारगम्यत्वात् । प्रमाणाभियुक्तानां चाक्षचरण. कणभक्षादीनां स्मृतौ प्रमाणव्यवहाराभावात्, इन्द्रपाणिनिप्रभृति , न्यायलीलावतीकण्ठाभरणम् पूर्वानुभवागोचरत्वादित्याह तस्येति । स्मृतिविषयस्येत्यर्थः । कथमिति । स्मृतिकरणीभूतस्य तृतीयप्रमाणस्यावश्यं वाच्यत्वादित्यर्थः । निग न्यायलीलावतीप्रकाशः तत्तावच्छेदस्तत्र भासते स च वस्तुगत्या घटे कदाचिदस्त्येवेति तद्विषया स्मृतिर्यथार्थैव, इदानीमयं रक्त इति प्रतीतेराकार एव नेति भावः । नापीति । इदानींकालं तत्कालत्वेन नाकलयति स्मृतिरिति शेषः । अनवभासात्तस्येति । इदानींकालविशिष्टत्वेनाननुभूतस्येदानीं मृ. त्ययोगादित्यर्थः । प्रमाणशब्दवाच्यत्वमाधुनिक सङ्केतविषयतया ईश्वरसङ्केतविषयतया वा ? आद्ये अनीश्वरेति । अन्त्ये ईश्वरच्छेति । त. न्यायलीलावती प्रकाशविवृतिः 1 त्येव तत्ता भासतेऽन्यथा तु प्रमुष्टतत्तांशैव स्मृतिरिति भावः । अ नुभवस्य तत्ता विषय इति तत्कल्पनमिति मूलस्य चानुभवे तत्तावि षयकत्वकल्पनमित्यर्थ इति भावः । आकार एव नेति । रक्तो घट इति प्र. त्ययस्य न तथाकार इत्यर्थः । इदानीकालं तत्कालत्वेनेति । इदमुपलक्षणम्, तत्कालमिदानका लत्वेन तत्कालस्येदानींकालावच्छिन्नत्वं चेत्यपि मूलार्थो द्रष्टव्यः । इदानींकालेति । इदानींकालस्याननुभूतस्य स्मृत्ययो.